________________
जैनेन्द्रव्याकरणम् ।
२८१
रथचक्रचित् । आख्या ग्रहणं किमर्थं रुढेः परिग्रहार्थम् । अग्न्यर्थ इष्टकाचयः श्येनचिदुच्यते ॥
कर्मगोविक्रियः ॥ ८० ॥
वाचि नित्यं त्यो भवति । विपूर्वीत् क्रीणातेः । कर्मणीति वर्तमाने पुनः कर्मग्रहणमभिवेयनिवृत्त्यर्थम् । कर्मणि वाचि कर्त्तरि कारके यथा स्यात् । तैलं विक्रीतवान् तैलविक्रयी । घृतविक्रया । कुल्लायामिति वक्तव्यम् । इह न भवति । धान्यविक्रायः ॥
दृशेः क्वनिप ॥ ८१ ॥
भूते कर्मणीति च वर्त्तने । कर्मणि वाचि दृशेद्धेः 1 कनिष्भवति । मेरु दृष्टवान् मेरुदृश्वा । विश्वदृश्वा । पित्करणमुत्तरार्थम् । सामान्येन कनि प्रेसिडे पुनर्वचन ! भूते मन्वन्विचां निवर्तकम् ॥
राशि युधि कृञः ॥ ८२ ॥
राजशब्दे कर्मणि युधिकृज् इत्येताभ्यां कनिष्भवति । युधिरन्तर्भावितण्यर्थः सकर्मकः । राजयुध्वा । राजकृत्वा अयमपि येोगः मन्वन्वियां निवृत्त्यर्थः । कर्मणीत्येव । राज्ञा युद्धवान् ॥
सहे ॥ ८३ ॥
सहशब्दे वाचि युधिकृञित्येताभ्यां कनि भवति भूते । सह युडवान् सहयुध्वा । सहकृत्वा । वानीच इत्यत्र न्यगवयवस्य वसस्य ग्रहणात् सहशब्दस्य सभावो न भवति । योगविभागेो यथासंख्यनिवृत्त्यर्थः ॥
1