________________
जैनेन्द्रव्याकरणम् |
२५७
देव गिपूर्वस्य ग्रहणम् । चेतयः । सातं करोतीति णिच सातयः । साहयः । आद्याभ्यां के इतरेभ्योऽचि प्राप्ते वचनम् ॥
दाञ्धाञोवा ॥ १११ ॥
कार्थे ताविभक्तो । दाञ् धात्र इत्येताभ्यां अगिषूवाभ्यां वा शो भवति । ददः । दधः । दायः । धायः । अगावित्येव । प्रदः । प्रधः । अनुबन्धनिर्देशो यङुचन्तयो शो मा भूदित्येवमर्थः ॥
ज्वलितिकसन्ताराणः ॥ ११२ ॥
sa आद्यर्थे अविभक्तिकश्च निर्देशः । ज्वतादिभ्यः कस गतौ इत्येवमन्तेभ्यः वा यो भवति । ज्वालः । ज्वलः । कासः । कसः । चालः । चतः । श्रगावित्येव । प्रज्वालः ॥
श्याद्व्यधातुसंतुलिहविषश्वसतीगाः ॥ ११३ ॥
श्यैङ् आकारान्त व्यध आस्रु संस्रु लिह रिलष श्वस अतीणू इत्येतेभ्यो णो भवति । वेति निवृत्तं अगाविति च । अवश्यायः । आदिति सिडे पुनः श्यग्रहणं अतोगावित्यस्य बाधनार्थः । श्रात् । दायः । धायः । व्याधः । आश्रावः । संभावः । लेहः । श्लेषः । श्वासः अवादिभ्यस्तनेरिति वक्तव्यम् । अवतनोतीत्यवतानः ॥
सोऽवे ॥ ११४ ॥
हसा इत्येताभ्यां अवपूर्वाभ्यां यो भवति । अवहारः । अवसायः ॥
दुन्योरगा ॥ ११५ ॥