________________
Sandi
nind
mmedabasindian
se
am
ipawmumm
जैनेन्द्रव्याकरणम् । अदुद्रवत् । कमिग्रहणं वाग इति यदा लिङ् न भवति तदा प्रयोजयति अचकमत । अक: खं यस्मिन् णाविति तत्र विग्रहात् सन्वद्भावो न भवति । णिपक्षे सन्वद्भावः । अचीकमत् । प्रात्मकर्मणापि च भवति । अचीकरत कट: स्वयमेव । णिश्रिश्रथिग्रन्थ सान्दविधौ धीनाञ्चेति जियको प्रतिषेधं वक्ष्यति ।
वा धेट्रव्योः ॥४४ ॥ धेठ श्वि इत्येताभ्यां वा कन्भवति कर्तरि लुङि परतः । अदधत् । द्वित्वे ऽचोत्यात्वस्य स्थानिवद्भावाद् द्वित्वं यदा सिस्तदा वा घ्राधेच्छासास इति वा सेरुप । अधात् । अधासीत् । अनुपि यमरमनमातः कति सगिटौ। अशिश्वियत् । नौ मिरित्यत्रेकारप्रश्लेषात् त्रिप्रतिषेधः । कचा मुक्त पक्षे जश्विइत्यादिना विकल्पेनाङ् । अश्वत् । अश्वयीत्। यक्षणेत्यादिना सावैप्रतिषेधः । कर्तरीत्येव । अधिषातां वत्सेन ॥
वत्तयसुख्यातेरङ् ॥ ४५ ॥ वक्ति असु ख्याति इत्येतेभ्यो लुङि परतः अङ् भवति । इदमेव वक्तिवचनं ज्ञापकं गपि वनो वचिरादेशो भवतीति । अवोचत्। अवोचत। अस्पदचोथुक्पुम्मो च्छीत्युमागमः। अस् । उदास्थत । उदास्थेताम् । उदास्थन्त । अगेरत्यूस्यहोर्वचनमिति दः । मविषये पुषादित्वादेवाङ् सिद्धः । ख्यातिरिति ख्या प्रकथन इत्यस्य चक्षादेशस्य च कृतयकारस्याविशेषेण ग्रहणम् । आख्यत् । आख्यताम् । श्राख्यन्॥
हालिप्सिचः ॥ ४६ ॥
-
-