________________
२२८
महावृत्तिसहितम्
ग्रहार्थमिदम् । च्यर्थे वायमिति केचित् । अमुण्डं मुण्डं करोति मुण्डयति । मिश्रयति । लक्षण्यति । लवणयति । व्रताद्भोजने तन्निवृत्तौ च । पयेा व्रनयति । पयो भुङ्क्ते इत्यर्थः । सावयं व्रतयति । सावधं न भुङ्क्ते इत्यर्थः । वस्त्रात् समाच्छादने । वस्त्रेण संच्छादयति संवस्त्रयति । हलिं गृह्णाति हलयति । कलिं गृह्णाति कलयति । हलिकल्पोरकारान्तता विचा योगे निपात्यते । द्यौ कच्यनज्के सम्बदिति सन्वद्भावप्रतिषेधार्थम् । कलिं गृहीतवानचकलम् । अजहलम् । अन्यथा परत्वादिपि कृते टिखं स्यात् ततः सम्वद्भावः प्रसज्येत । यथा अलीलघत् अपिपटत् इति । कृतं गृह्णाति कृतयति । तुस्तानि केशजटाः विहन्ति वितुस्तयति ॥
धार्यक्रियासमभिहारे ॥ १६ ॥
पौनः पुण्यं भृशार्थी वा क्रियासमभिहारः । धार्यंङ भवति क्रियासमभिहारे । पुनः पुनः पचति भृशं वा पापच्यते । बोभुज्यते । क्रियान्तरैरव्यवहितायाः प्रधानभूत। विक्लेदनक्रियायाः पुनः पुनरारम्भः पैौनःपुन्यम् । गुणभूताधिश्रयणादिक्रियाणां क्रियान्तरैरव्यवहितानां साकल्येन करणं भृशार्थता । सूचि त्रिमूत्रयव्यर्त्यशूर्णेतीनां ग्रहणं नियमार्थं कर्त्तव्यम् । सासूच्यते । सासूत्रयते । मोमूव्यते । अनेकाभ्य एव नान्यस्मात् । अत्यर्थं जागतति । श्राव्यते । श्ररार्धते । एडीत्येपू । अत्यर्थमश्नुते अशाश्यते । प्रोणेनूयते । श्रव्यादिग्रहणं किमर्थमन्यस्माद्जादेर्मा भृत् । भृशमीक्षते । पुनः पुनरोहते । क्रियासमभिहारे सर्वस्य द्विन्वे वेति विभाषानुवर्तते । तेन यङन्तस्य द्वित्वं न भवति । तत एव क्रियासमभिहारे या लोट् तदन्तस्य भवति । लालू