________________
जैनेन्द्रव्याकरणम् |
२२७
भ्यः स्वभोगे क्यङ् भवति । सुखमात्मनः करोति सुखायते । सुखं भुङ्क्ते अनुभवति वेदयनीत्यनर्थान्तरम् । एवं दुःखायते । सुख दुःख तृप्त कुछ अलीक करुणा कृपण साढ प्रतीप | स्वभोग इति किम् । सुखं करोति प्रसाधको देवदत्तस्य ॥
नमोवरिवश्चित्रङः क्यच् ॥ १६ ॥
कृनोति वर्तते । नमस् वरिवस् चित्रङ् इत्येतेभ्यः क्यज् भवति करोत्यर्थे । पूजापरिचर्याश्चर्यविशेषे । नमः करोति नमस्यति देवान् । अत्र नमः शब्दस्यानर्थकत्वात्तद्योगे नाव् भवति । वरिवः करोति वरिस्थति गुरून् । चित्रङ् करोति चित्रीयते । ङित्वादः । पूजादिभ्योऽन्यत्र नमः करोतीति भवति ॥
पुच्छभागडचीवराण णिङ् ॥ ११ ॥
पुच्छ भाण्ड चीवर इत्येतेभ्य इवन्तेभ्यो णिङ् भवति कrत्यर्थविशेषे । कोऽसैौ विशेषः । पुच्छादुदसने पर्यसने वा उत्पुच्छयते । परिपुच्छयते । भाण्डात्सञ्चयने परिचयने । वासं भाण्डयते परिभाण्डयते । चीवरादर्जने परिधाने वा संचीवरयते भिक्षुः । एकारो णाविष्टवन्मृद् इत्यत्र सामान्यग्रहणाविघातार्थः । अर्थविशेषादन्यत्र जेिव भवति ॥
मुण्ड मिश्रण लवश व्रत वस्त्र हल कलकृततूस्तेभ्यो णिच् ॥ १८ ॥
मुण्ड इत्येवमादिभ्य इवन्तेभ्यो णिज भवति करोत्यर्थे । चुरादिषु मृदा ध्वर्थ इति णिचि नि अर्थविशेषपरि