________________
जैनेन्द्रव्याकरणम् ।
२१७
काचित् गर्गादौ पठ्यते । कौण्डिन्यः । कौण्डिन्यौ । कुण्डिनाः । अगस्त्यः । श्रागस्त्यैौ । अगस्तयः । यद्यपि यत्रञोरिति यत्र उप् सिडस्तथापि कुण्डिनशब्दो ऽकारान्त आदेशेो विधीयमानो बाधक' स्यादिति पुनर्वचनम् । अगस्तीनां छात्रा आगस्तीया इत्यत्र अगस्तिरादेशो भवति । प्राद्रवोविषये वृद्ध चानुविति अनुपि सति दोध इति छः सिद्धः । कौण्डिनाश्छात्राः ॥
सुपा धुमृदेाः ॥ ४२ ॥
धुमृदोरन्तस्यावयवस्य सुप उभवति । पुत्रमिच्छत्यात्मनः पुत्रीयति । पटीयति । मृदः । राजपुरुषः । धर्म श्रितो धर्मश्रितः । तदन्ता धव इति धुसंज्ञायां कृत्सा मृत्संज्ञायां च सुप उप् । एवं तस्मात्ततः । तस्मिन् तत्र । धुम्दोरिति किम् । वृक्षः । अत्र कृद्धत्सा इति नियमात् विभक्तया मृत्सज्झा नास्ति ॥
शपेोऽदादिभ्यः ॥ १४३ ॥
अदादिभ्यो धुभ्यः परस्य शप उन्भवति । अन्ति । इन्ति । दोग्धि ||
योऽचि ॥ १४४ ॥
यङ उभवति अचि परतः । लोलूय पोषय मरीमृज्य इत्येतेभ्यः पचाद्यचि लेालुवः पोपुवः मरीसृजः । नधुखेग इति ण्वैपाः प्रतिषेधः । यङो वेस्यत्र वक्ष्यत्य विशेषेण यङ उबू भवति तेन वावदीति इत्येवमादि सिध्यति ॥ उब् जुहोत्यादिभ्यः ॥ १४५ ॥
शप इति वर्तते । जुहोत्यादिभ्यः परस्य शप डब् भवति ।