________________
२०७
unia
जैनेन्द्रव्याकरणम् । शो वा भवाते। श्रावधि । आवधिषाताम् । आवधिषत । आहत । आहसाताम् । अाहसत । आङो यमहन इति दविधिः । हनः सिरिति सेः कित्वं कर्मणि । अवधि । अवधिषाताम् । अवधिषत । त्रिवद्रावे अघानि । अघानिषाताम् । अघानिषत।
लुङयेत्यागीः ॥ ११ ॥ लुङि परतः एत्योर्मा इत्ययमादेशो भवति । अगात् । अगाताम् । अगुः । अध्यगात् । अध्यगाताम् । अध्यगुः । स्थेणावेत्यादिना इण्वदिक इति च सेरुप आत इति झेर्नुस् पुनर्लङ्ग्रहणमिव्यपि नित्यार्थम् । अगायि भवता। अध्यगायि भवता । गात्रमिति गायतेः ।।
गो गमजाने ॥ ११८ ॥ गो परत एत्योर्गमित्ययमादेशाभवत्यज्ञानेऽर्थे । गमयति । गमयतः। गमयन्ति । अनेकार्थत्वादिकोऽप्य ज्ञाने त्तिः । अधिगमयति । अधिगमयतः । अधिगमयन्ति । उडोत इत्यैप् । जनीजषक्नसुरजेोऽमन्ताश्चेति मित्वं जिनमोर्दीर्मितां प्र इति प्रादेशः। अज्ञान इति किम् । अर्थान् संप्रत्यायति।
सनि ॥ ११६ ॥ सनि च परत एत्योरज्ञानेऽथै गमित्ययमादेशो भवति । जिगमिषति। अधिजिगमिषति । गमेरिराम इती.ट । अज्ञान इत्येव । अर्थान् प्रतीषिषति । अच इति वर्तमाने सन्योरिति द्वितीयस्यै काचो द्वित्वम् । बोगविभाग उत्तरार्थः।
STMENT
-