________________
omanemastram
जैनेन्द्रव्याकरणम् । न्यम् । आसमिकन्यम् । चर्मकन्यम् । एते उसीनरेषु ग्रामाः। विग्रहवाक्यं सादृश्यमात्रेण । खाविति किम् । वीरणकन्या । उसीनरेष्विति किम् । दक्षिकन्या । अन्यत्र ग्रामसज्ञेयम् ॥
उपज्ञोपक्रमं तदाद्युक्तौ ॥ ६ ॥ उपज्ञायत इति उपज्ञा उपदेशः । उपक्रम्यत इति उपक्रमः प्रारम्भः। उपज्ञोपक्रम इत्येवमन्तः षसोनभवति तयोरुपज्ञोपक्रमयोरायुक्तौ गम्यमावायाम् । स्वायम्भुवस्योपज्ञा स्वायम्भुवोपज्ञमाकालिकाचाराध्ययनम् । देवोपज्ञमनेकशेषव्याकरणम्। कुरुराजस्योपक्रमः कुरुराजेोपक्रम दानम् । अकम्पनोपक्रमं स्वयंवरविधानम् । उपज्ञोपक्रममिति किम् । आदिदेवतपस्या तीवा। तदाधुक्ताविति किम् । देवदत्तोपज्ञा । देवदत्तोपक्रमो गणितम् । उत्तरपदस्य प्राधान्यवल्लिङ्गं ष इत्येव । सम्यशुपज्ञो भगवान् । स्वायम्भुवो यस्येदमाकालिकाचाराध्ययनं वाक्येन तदाद्युक्ती गम्यमानायामिदम्प्रत्युदाहरणम् ।
छाया बहूनाम् ॥ ८॥ बहूनां या छाया तदन्तः षसो नन्भवति । इक्षणां छाया इक्षुच्छायम् । सलभच्छायम् । बहूनामिति किम् । कुज्यस्य छाया कुडपच्छायम् । कुख्यच्छाया । सेनासुरेत्यादिना विकल्पः । ष इत्येव । बहवः छाया अस्मिन्वहुच्छायो वनखण्डः॥
सभा राजामनुष्यात् ॥ ६॥ अंराज्ञः अमनुष्याच परा या सभा तदन्तः यो नव भवति । अराज्ञः। इनस्य सभा इनसभम् । ईश्वरस
meanemomsonsen
s
-