________________
जैनेन्द्रव्याकरणम् ।
२०१
शीतोष्णे उदके । चकारादविरोधेऽपि । वधूवरम् । वधूवरौ । स्थावरजङ्गमम् । स्थावरजङ्गमे ।
न दधिपय श्रादीनि ॥ ६० ॥
1
दधिपय आदीनि इन्द्ररूपाणि नैकवद्भवन्ति । येन केनचित् प्राप्त प्रतिषेधोऽयम् । दधिपयसी । सर्पिर्मधुनी । मधुसर्पिषी । व्यञ्जनत्वात् प्राप्तिः । ब्रह्मप्रजापती । शिववैश्रवणैौ । स्कन्दविशाखा । परिव्राजक कौशिकी । प्रवर्योपसदौ । वेतिप्राप्तिः । शुक्लकृष्णैी । इध्माबर्हिषी । निपातनात् पूर्वस्य दीत्वम् | योगानुवाके | दीक्षातपसी । श्रडातपसी । अध्ययनतपसी । उलूखलम्सले । आधावसाने । श्रद्धामेधे । ऋक्सामे । वाङ्मनसे । वेति योगविभागात् प्राप्तिः । चण्डालमृतपादयश्च ॥
1
अथैतावत्वं च ॥ ९१ ॥
एतावत्वभियन्ता । वृत्त्यवयवार्थानामेतावत्त्वे च द्वन्द्वो नैकवद्भवति । द्वादश मे मार्दङ्गिकपाणविकाः । चकारः प्रतिषेधानुकर्षणार्थः ॥
वा समीपे ॥ ९२ ॥
नेति निवृतम् | अर्थानामेतावत्त्वस्य समीपे वा द्वन्द्व एकवद्भवति । उपदशं दन्तेाष्ठम् । उपदशा दन्तोष्ठाः । एकवद्भावपक्षे हसेोऽनुप्रयुज्यते अन्यत्र वसः । हसे अन इति अः सान्तः । वसे तु ङः ॥
स नप ॥ ९३ ॥
यस्यायमुक्त एकवद्भावः स मन्भवति । तथा चैवा