________________
matemenom
e
non
dansentendones
महात्तिसहितम् । इति किम् । कुकुटमयूर्यो । अग्राम इति किम् । जाम्बवश्च शालूकिनी च जाम्बवशालकिन्यो । ननु नद्यपि देश इति पृथग्ग्रहणं किमर्थम् । ज्ञापकार्थ जनपदो देशोऽभिप्रेतो न नदीपर्वतादिः। तेनेह नैकवद्भावः। कैलासश्च गन्धमादनं च कैलासगन्धमादने । अपुरमिति किम् । लोके ग्रामग्रहणेन पुरमपि गृह्यते ततोऽपुरमिति प्रतिषेधः । मथुरापाटलिपुत्वम् । अग्राम इति प्रसज्यप्रतिषेधः । तेन यत्र पुरग्रामयोईन्द्धस्तत्रापि नैकत्वम् ।नासौर्यकैतवी पुरग्रामो।
क्षद्रजीवाः ॥ ८४ ॥ इहाल्पशरीरः क्षुद्रः। क्षुद्रजीवानां इन्द्व एकवद्धवति । क्षुद्रजीवाश्रयो छन्द्ध उपचारात् क्षुद्रजीवा इति निदेशः।यूकालिक्षम् । शतस्वश्च उत्पादकाश्च शतशत्पादकम् । दंशमशकम् । क्षुद्रजीवा अकङ्काला येषां स्वं नास्ति शोणितम् । नालिय॑त्सहस्रेण केचिदानकुलादपि । केचित् शब्दःप्रत्येकमभिाम्बध्यते । क्षुद्रजीवा इति बहुवचनानदेशात् द्वित्वविषये नेदमिति यूकालिक्षी। दंशमशकौ ॥
येषाञ्च द्वेषः शाश्वतिकः ॥ ५ ॥ द्वेषोऽप्रीतिः । येषां च द्वेषः शाश्वतिकस्तद्वाचिनां बन्छ एकवद्भवति। शश्वद्भवः शाश्वत्तिकः । कालाजिति ठञ् निपातनादिकादेशः । झेममात्रे टिस्खमिति खं च न भवति । अहिनकुलम् । श्वावराहम् । अन्यस्यापि दीत्वम् । शाश्वतिक इति किम् । गोपालशालकायनाः केन चिनिमित्तेन कलहायन्ते । चकारोऽवधारणार्थः । अयमेव
-
aa
samadnaaaaaaaaaa
-
-
-