________________
जैनेन्द्रव्याकरणम् ।
१६७
सूयवाजपेये । इह कस्मान्न भवति दर्शपैौर्णमासैा । दधिपयचादिषु द्रष्टव्यः ॥
अधीत्वा ऽदूराख्यानाम् ॥ ८१ ॥
आख्या नामधेयम् | अधीत्या निमित्तभूतया अदूराख्यानां इन्छ एकवद्भवति । पदमधीते पदकः । क्रममधीतेक्रमकः । पदक्रमकम् । क्रमकवार्त्तिकम् | पदाध्ययनस्यासन्नं क्रमाध्ययनम् । अधीत्येति किम् । श्रढयदरिद्रौ । अदुराख्यानामिति किम् । याज्ञिक वैयाकरणा । यज्ञमधीते याज्ञिकः ॥
ऋप्राविजातेः ॥ ८२ ॥
अप्राणिजातिवाचिनां द्वन्द्व एकवद्भवति । आराशस्त्रि । धानाशष्फुलि | युगवरन्त्रम् । अप्राणिग्रहणं किम् । गोपा विशालङ्कायनाः । गोत्रं चरणैः सहेति जातिः । जातेरिति किम् । हिमवद्विन्ध्यौ । नन्दकपाञ्चजन्यैौ । संज्ञाशब्दा एते । नञ्सदृशसम्प्रत्ययहेतुः । तेन द्रव्यजातीनामेकवद्भावादिह न भवति । रूपरसगन्धस्पर्शाः । गमनागमने । जातेरविवक्षायां न भवति । बदरामलकानि तिष्ठन्ति ॥
भिन्नलिङ्गो नदीदेशे ऽग्रामोऽपुरम् ॥ ८३ ॥
भिन्नलिङ्गानां नदीदेशवाचिनामग्रामाणामपुराणां इन्छ एकवद्भवति । नदी । उाश्वेरावती व उडघेरावति । विषामिदम् | गङ्ग शिणम् । देशाः । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् | कुरुकुरुजाङ्गलम् । दर्वाश्च अभिसारं च दावभिसारम् । कास्मीराभिसारम् । भिन्नलिङ्ग इति किम् । गङ्गायमुने । मद्रकेकयाः । नदीदेश