________________
|१४४
महावृत्तिसहितम् । पोटादीनामितरेतरयोगो द्वन्द्वः । पाटादिभिः सहै. काश्रये जातिः समस्यते षसो भवति । विशेषणस्य परनिपातार्थ प्रारम्भः । जातिद्वारेण यः शब्दो द्रव्ये वर्तते स इह जातिशब्दोऽभिप्रेतः। इभ्या च सा पोटा च इभ्यपीटा। इभ्येति जातिशब्दः। स्त्री भूत्वा राज्यपालनार्थ या पुंवेषण युज्यते सा पोटा। यापि गर्भ एव दास्य गता साऽपि पोटा। स्त्रयुक्त पुंस्कत्यादिना पुंवद्भावे प्राप्ते जातिश्चेति प्रतिषिड पुंवद्यजातीयदेशीय इति पुंवद्भावः। एवमार्य पाटा। युवतिस्तरुणी । इभ्ययुवतिः । क्षत्रिययुवति । अग्निश्च स स्तोकञ्च तदग्निस्तोकम् । दधि च तत् कतिपयञ्च दधिकतिपयम् । स्तोककतिपयशब्दावेकार्थे । सकृत्प्रसूता गृष्टिः। गौश्च सा गृषिश्व गोष्ठिः । धेनुरभिनवप्रसवा । गोधेनुः । वशा वन्ध्या। गोवशा । वेहत् गर्भघातिनी। गर्भधारिणीत्यन्ये।गोवेहत्। महता वत्सेन या दुह्यतेसा बस्कयिणी। गोवष्कयिणी । प्रवक्ता उपाध्यायः । कठप्रवक्ता। कठोत्रियः। अध्यापकोऽध्यता । कठाध्यापकः । कठधूर्तः। बुद्धिमानित्यर्थः। धूर्तग्रहणमिहाकुत्सार्थम् । अथवा आश्रयिषु कुत्सितेषु तद्भवति।प्राश्रयेषु तु कुत्स्येषु इदम् ।ब्राह्मणधूतः क्षत्रियधूर्त इति यदा हि ब्राह्मणत्वमाश्रयि कुत्स्यते तदा तेनैव सिद्ध सविधानम् । यदा तु तद्युक्तो देवदत्तः कुत्स्यते तदर्थमिदम् । जातिरिति किम् । देवदत्तः प्रवक्ता । देवदत्तशब्दस्याजातिवचनत्वावृत्तिः।जातेर्विशेष्यायाः पूर्वनिपातार्थ प्रारम्भः।
चतुष्पाद्गर्भिण्या ॥ ६१ ॥ जातिरिति वर्तते । चत्वारः पादा यस्याः सा चतु.