________________
जैनेन्द्रव्याकरणम् । १४३ | कतमशब्दो सियतः । समर्थी सङ्गतार्थी समानार्थावका
वित्यर्थः । तो सुबन्तेन सह समस्येते षसो भवति । कदा चानयोः समानार्थत्व यदा जातिप्रश्ने तो व्युत्पाद्यते तदा तयोः समानाथत्वम् । कतरश्च स गाय॑श्च कतरगार्यः। कतमगार्य । कतरकठ । कतमकठः । वृद्धचरणैः सहेति जातिवाचित्वम् । समर्थाविति किम् । कतरो भवतावदत्तः। द्रव्यप्रश्नोऽयम् । समर्थग्रहणं हि कतरस्यैव विशेषणं डतरस्याविशेषेण विधानान कतमस्य । डतमस्य जातिप्रश्न एव तैविधानात् । अतः कतमो भवतां देवदत्त इति व्यावृत्त्युदाहरणमत्रानुपपन्नम् । कतरकतमयो प्रश्न विहितयोः सविधिना न गायादेविशेष्यव्यवस्थेति वचनम् ॥
पे किम् ॥ ५६ ॥ क्षेपः कुत्सा । यो हि यदर्थस्तस्य तदर्थाननुष्ठान क्षेपः। किमेतत् क्षेपे गम्ये सुबन्तेन समस्यते षसो भवति । को नाम राजा किंराजा । यो न रक्षति । न स्वति किम इति सान्तप्रतिषेधः । किंसखा । योऽभिद्रगति । किङ्गौः। यो न वहति । गोरहृदुपीति सान्ते टे प्राप्ते न स्वति किम इति प्रतिषेधः । सर्वत्र स्वकार्याभावात् क्षेपः । क्षेप इति किम् । को राजा पाटलिपुत्रे । किमिति योगविभागः तेन संज्ञायां शुकादिभिः सह किंशब्दः समस्यते षसो भवति । किंशुकः पलाशः। किंशुलुकः पर्वतः । किंपुरुषो मयुः। किन्नरः स एव । किञ्जलकः पुष्परेणुः । किङ्गिरातः। किंवदन्तीत्यादयः सिद्धाः॥
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहहष्कयणोप्रवक्तश्रोत्रियाध्यापकधूर्तेीतिः॥ ६०॥