________________
जैनेन्द्रव्याकरणम् वैषम्याद्यथासङ्ख्यं न भवति । श्रेण्यादिषु च्च्यर्थग्रहणं कर्तव्यं न कर्त्तव्यमितिशब्दानुवृत्तस्तत्र च वृत्तिः। अश्रेणयः श्रेणयः कृताः श्रेणिकृताः।अनूका अकाः कृताः ऊककृताः। व्यर्थादन्यत्र श्रेणयः कृताः। करोतेरनेकार्थत्वादण्डिता पूजिता वेति गम्यते । विकल्पेन चिर्विधःस्यते यदा चिस्तदा परत्वात् तिकुप्रादय इति नित्यं षसः। श्रेणोकृताः। ऊकीकृताः । श्रेणी ऊक पूग कुन्दुम राशि निचय विषय विशिष्ठ निर्धन देव इन्द्र मुण्ड श्रमण भूत वदान्य अध्यापक ब्राह्मण क्षत्रिय पटु पण्डित कुशल चपल निपुण इति श्रेण्यादिः । कृतादिराकृतिगणः । कृत मित मत भूत उक्त समाज्ञात समाख्यात समास्नान सम्भावित अवधारित संसेवित अवकल्पित निराकृत उपकृत इत्येवमादि । क्रियाकारकसम्वन्धोऽत्र न विशेषणविशेष्यभाव इति ।
विसमाप्तौ तो ऽनञ् ॥ ५५ ॥ विगता समाप्तिःविसमाप्तिः। ईषन्निष्पत्तिरित्यर्थः। अनतान्तं विसमाप्तौ सामर्थ्यात् कान्तेन समस्यते षसो भवति । एकस्यां हि क्रियायां विसमाप्तिर्भवति न क्रिया. भेद इति सामर्थ्यम् । क्तान्तस्याननिति प्रतिषेधान्नजपूर्वेणापि कान्तेन सविधिः । कृतञ्च तकृतश्च कृताकृतम् । कृतभागसम्बन्धात् कृतम् । अकृतभागसम्बन्धात्तदेवाकृतम् । एवं भुक्ताभुक्तम् । पीतापीतम् । अशितानशितम् । लिक्लिशितम् । क्लिशस्तकोरिति वेट । मुक्तविमुक्तम् । पीतविपीतम् । कृतापकृतम् । विसमाप्ताविति किम् । सिद्ध चामुक्तं च । क्रियाभेदे विसमाप्तिास्ति एकस्याः समाप्तत्वादपरस्या अननुष्ठानात् ।क्त इति किम् । कर्तव्यं