________________
-
_ महावृत्तिसहितम् ।
दिक्संख्यमिति वर्तते। हृदर्थविषये द्यौ परतः समाहारेऽभिधेये दिकसंख्यमेकाश्रये सुबन्तेन सह षसो भवति । दिक् । हृदर्थे । पूर्वस्यां शालायां भवः षसे कृते समुदायाद्दिगादेरखाविति णः । पौर्वशाल. । आपरशालः। द्यौ। पूर्वा शाला प्रिया अस्य पूर्वशालाप्रियः । अपरशालाप्रियः । अवयवापेक्षया षसाः। पूर्वपदस्य पुंवद्भावः । दिशां समाहारो नास्ति । क्रियागुणापेक्षयाऽपि समाहारे अनभिधानम् । संख्या । हृदर्थे । पञ्चभिः शष्कुलोभिः क्रोतः पञ्चशष्कुलः । अनेन षसे कृते तस्य संख्यादोरश्चेति रसंज्ञायां श्राीयस्य ठणो रादु स्वावित्युप। हृदुप्युबिति स्त्रोत्यस्योए । पञ्चानां नापितानामपत्य पाञ्चनापितिः। रस्योबनपत्य इति वचनं ज्ञापकं हृदषैपि से हृदुत्पत्तिर्भवति । द्यौ। पञ्च गावो धनमस्येति पञ्चगवधनः । अवयवसापेक्षया गोरहृदुपीति : सान्त सिडः। हे ऽहनी जातस्य यन्हजातः । एभ्योऽन्होन्ह इत्यन्हादेशः। समाहारे। पञ्च पूलाः समाहृताः पञ्चपूली । अनेन षसः । उत्तरसूत्रेण रसंज्ञायां रादिति डोविधि । कथं षण्णगरी अत्रापि क्रियागुणापेक्षया समाहारोऽस्ति । लब्धा शोभनाचेति गम्यते समाहारस्यैकत्वादेकवचनम् । ननु समाहारः समूह स तु हृदर्थ एव न पृथक् समाहारनिर्देशात् । समूहार्थस्य त्यस्यानुपपत्तिः पकानां कुमारीणां समाहारः पञ्चकुमारी। त्योत्पत्तौ हि रस्योबनपत्य इत्युए प्रसज्येत । ततश्च हृदुप्युधिति स्त्रीत्यस्योप् स्वात् ।
___ संख्यादी रश्च ॥ ४ ॥ हृदर्थद्युसमाहार इत्यत्र संख्यादिर्यः स उक्तः स|
-