________________
-
-
१२८
महावृत्तिसहितम् उत्तरसूत्रेणात्तान्तेन वृत्तिं वक्ष्यति विच्छेदे क्तान्तेनेहोदाहरणम् । षणमुहूर्ताश्चराः । ते उत्तरायणेऽहर्गच्छन्ति । दक्षिणायने रात्रिम् । तेन नास्त्यविच्छेदः । अहरतिमृता मुहुर्ताः । अहःसंक्रान्ताः । रोसुपीत्यन्हो नकारस्य रेफादेशः। रात्रयारूढाः। रात्रिसंक्रान्ताः। मासं प्रमिता मासप्रमितश्चन्द्रमाः। मासं प्रमातुमारब्धः प्रतिपचन्द्रमाः। तेन विच्छेदः ॥
अविच्छेदे ॥ २६ ॥ क्तान्तेनेति निवृत्तम्। अविच्छेदोऽत्यन्तसंयोगः। कालाः इबन्ताः सुबन्तेन सह षसो भवति अविछेदे । अविच्छेदश्च कालस्य द्रव्य क्रियागुणैः सम्बन्धिभियाप्तिः।अत्यन्तं सुखमत्यन्तसुखम् । अत्यन्तरमणीयम् । सर्वरात्रकल्याणी। सर्वरात्रशाभना । कालाध्वन्यविच्छेद इतीप् ॥
भा गुणोक्त्यार्थेनानैः ॥ २७ ॥ भान्तं गुणोक्या अर्थशब्देन गुणवाचिभिश्च शब्दैः सह षसो भवति । शङ्कलया खण्डः शङ्कलाखण्डः । गुणवचनादुबिति मतोरुप् । एवं गिरिणा काणः गिरिकाणः। मदेन पटुर्मद पटुः । कुसुमैः सुरभिः कुसुमसुरभिः। कार्यकारणभावलक्षणमन्त्र सामर्थ्य शङ्कलादिकृतत्वात् खण्डत्वादीनाम् । उक्तिग्रहणं किमर्थम् । उच्यते इत्युक्तिः। गुणेनोक्तिगुणाक्तिः । गुणद्वारेण द्रव्ये यःशब्दो वर्तते तेन वृत्तियथा स्यात् केवलेन गुणेन मा भूत् । मदेन पाटवम् । वृत्तेन पाटवम् । अथैन । धान्येनार्थी धान्यार्थः । पुण्येनार्थः पुण्यार्थः। अर्थशब्दोऽत्र प्रयोजनवाची। उनैः । माषणोनो माषो नामाषविकलम्। एतैरिति किम।गोभिर्वपावान्।अस्त्यत्र
dailadis
-