________________
जैनेन्द्रव्याकरणम् ।
meroondemonetisanctunbathamtammanmate
अधिकारोऽयम् । यानित ऊर्ध्वमनुक्रमिष्यामो हसंज्ञास्ते घेदितव्याः षमित्यतः प्राक् । वक्ष्यति स्तोके प्रतिना। सूपप्रति । शाकप्रति । अस्वपदेन विग्रहः । अस्त्यत्र किश्चित् सूपस्य मात्रा स्तोकमिति वा । अचान्ये मन्यन्ते अनव्ययस्याव्ययभवनमव्ययोभाव इत्यन्वर्थसंज्ञा कर्तव्या । एतचायुक्तम् । असंख्यस्य भिसंज्ञा युज्यते । अस्य च संख्या विद्यते। उपकुम्भेन । उपकुम्भाभ्याम् । उपकुम्भैः। दोषः खल्वपि भिसंज्ञायां झिसर्वनानोऽक्प्राटेरिति यथेहारभवति । उच्चकैः । नीचकैरिति । एवमिहापि प्राप्नोति उपानिकं प्रत्यग्निकमिति । तथा खित्योर्मुमच इति झेः प्रतिषेध उच्यते दोषामन्यमहः दिवामन्या रात्रिः । स इहापि प्रामोति । उपकुम्भमन्यः। उपमणिकामन्यः । इह च अस्य च्याविति झेः प्रतिषेधो वक्ष्यति दोषाभूतमहः दिवाभूता रात्रिरिति । स इहापि प्राप्नोति उपकुम्भीभूतः । उपमणिकीभूतः। तस्माल्लघीयसी ह इति संज्ञा युक्ता। यद्यवं कृकमिकंसकुम्भकुशाकर्णीपात्र ऽतो झेरित्यनेन सत्वस्य प्रतिषेधो न प्रामोति उपपयाकार इति । अद्यस्थस्येति तत्र वर्तते । हसे च ध स्थो भवतीति प्रतिषेधः सिडः । पूर्वपदप्राधान्यञ्च सहस्याभिधानवशाज्ज्ञेयम् । हप्रदेशा हादित्येवमादयः । झिविभक्त्यभ्यासप्रर्थाभावातोत्यसप्रतिव्यद्धिशब्दप्रभवपश्चाद्यथानुपूर्व्ययोगपद्य
संपत्साकल्यान्तोक्तौ ॥५॥
malkandakniamini
R
-