________________
जैनेन्द्रव्याकरणम् ।
१०५] डाचीवृत्तिभ्यो ण इति निर्देशादद्विषये तो गित्वम् । तिरोऽन्ताविति निर्देशादन्तःशब्दस्यापि क्यादिविषये ॥
ति ॥ १३० ॥ तिसंज्ञाश्च प्रादयो भवन्ति क्रियायोगे । प्रकृत्य । प्रस्तुत्य । तिसंज्ञायां तिकुप्रादय इति षसः। प्यस्तिवाक्से स्क इति प्यादेशः । पुंल्लिङ्गा गिसंज्ञा समाविशति । अभिषिच्य । प्रणम्य । षत्वणत्वे सिडे । योगविभागः किमर्थः । उत्तरत्र तिसंज्ञैव यथा स्यात् गिसंज्ञा मा भूत् । इह ऊरीस्यादिति । गिप्रादुयों यच्चस्तेरिति षत्वं स्यात् ॥
चिडाजूर्यादिः ॥ १३१ ॥ च्यन्तो डाजन्तमूरीप्रभृतयश्च शब्दाः क्रियायोगे तिसंज्ञा भवन्ति । अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य । डाच। अपटत् पटत् कृत्वा पटपटाकृत्य । कृभ्वस्तियोगे विडाच विहिता तत्साहचर्या-दीनामपि कृभ्वस्तिभिरेव योगे तिसंज्ञा भवति । ऊर्यादिषु च्व्यर्थो न संभवति । ऊरीकृत्य । उररीकृत्य । जरीभूय । उररीभूय । जरीउररीशब्दावङ्गीकरणे विस्तारे च । पांपीशब्दो विध्वंसे माधुर्य सकरुणविलापे । चंतालीप्रांतालीशब्दी वर्षे । वेताली वैरूप्ये। धूसीशब्दः कान्ता वाञ्छायाञ्च । सकलासंमकलाध्वंसकलाभ्रंसकला एते हिंसायाम् । गुलुगुधाशब्दो पीडायाम् । सञः सहाथें । फलू फली विक्ली अक्ली एते विकारे। बालंबी आलोष्टी केवासी केवाली वर्षाली भस्ससा मस्मसा एते हिंसायाम् । औषद चौषट् वषट् | स्वाहा स्वधा एते दानार्थाः। चादिषु च पाठाक्रियायोगे
-