________________
PANTHUSISHARKHA
trong
स्य वस्तुनः, ' कोऽपि '-कश्चित् , ' स्पर्शः' स्पर्शनं त्वगिंद्रियजन्यं सुखमितिभावः, न अस्ति, 'च' शब्दः समुच्चये, 'भुक्तियुक्तिः'-भोगसंवन्धोऽपि, नैवाऽस्ति, 'गन्धग्रहः '-गन्धस्य ग्रहणं, 'नो'-नैवाऽस्ति, तदा'-तस्मिन् काले, च 'दृक्छ्ती ' दर्शनं श्रवणं च, नास्ति, 'च'-पुनः, 'पाणिपादादिभवा'-हस्तपादादिजन्या, 'क्रिया'-चेष्टाऽपि, नास्ति तथापि 'संतोषवता'-संतोषयुक्तेन तेन मुनिना, ' अहं सुखी '-सुखयुक्तोऽस्मीति, 'एषा 'वार्ता, 'भूयः'-भृशं, 'प्रणिगद्यते'-कथ्यते, ' अतः'-अस्मात् कारणात्, 'तत् '-पूर्वोक्तं स्वस्य, 'ज्ञानसौख्यं 'ज्ञानरूपं सुखं, ' ही 'ति निश्चये, 'सः'-मुनिः, एव, 'वेत्ति'-जानाति, 'ज्ञानहीनो'-ज्ञानविरहितः, अज्ञानीति यावत्, 'गदितुं'-कथयितुं, 'न समर्थः-न शक्तोऽस्ति ॥ ११-१६ ॥ मूलम्-इत्थं हि सिद्धेषु विनेन्द्रियाथै-स्तथा क्रियाभिः सुखमस्त्यनंतम् ।
ते एव तत्सौख्यभरं विदन्त्यपि, ज्ञानी न शक्तो वदितुं यतोऽसमम् ॥ १७ ॥ टीका-फलितमाह-इत्थमित्यादिना ' इत्थम् '-अनेन प्रकारेण, ' ही 'ति निश्चये, 'सिद्धेषु'-सिद्धात्मसु, 'इन्द्रियाथैः विना'-ज्ञानेंद्रियविषयान् विना, ' तथा' शब्दः समुचये, “क्रियाभि:'-मनोवाकायजनितामिः चेष्टाभिर्विना, 'अनन्तम् '-अन्तरहितम् शाश्वतमितिभावः, 'सुख-सौख्यमस्ति, 'तत्सौख्यभरं'-स्वसुखसमूह पूर्वोक्तसुखसमूह वा, 'ते'
१. बुद्धीन्द्रियक्रियेन्द्रियसमुत्पन्नगोचरैर्विना । २. क्रियाभिः मनोवाकायजनिताभिर्विनेत्यर्थः । ३. ते एव सिद्धा एव ।