________________
'
टीका - अन्यथा दूषणमाह - चेदित्यादिना ' चेत् ' - यदि, ' इति ' - एतत् मम कथनमित्यर्थः, 'न अस्ति ' - यदि मम कथनं तथ्यं नास्तीतिभावः, तथा 'एभ्यः ' - पूर्वोक्तेभ्यः, 'विष्णुप्रमुखेभ्यः ' - विष्णवादिभ्यः मुक्तिर्भवति, ' तदा 'तर्हि, ' इह ' - अस्मिन्संसारे, 'वैष्णवमुख्यलोकाः ' - वैष्णवादयो जनाः, 'सन्तः ' - साधवः, तथा ' गृहस्था: ' - गृहिणोऽपि, ' विष्णुमुख्यानेव ' - विष्णवादीनेव, ' अर्चयन्तः ' - पूजयन्तः सन्तः परितः ' - समन्तात्, तानेव ' जपन्तु ध्यायन्तु परम् - परन्तु, ' तपः ' - तपश्चर्या, 'संयमयुक्तता - संयमे तत्परता, 'क्षमा' - क्षान्तिः, ' निःसङ्गता 'सङ्गराहित्यम्, सङ्गपरित्याग इतिभावः, 'रागरुपापनोदौ ' - रागद्वेषयोः पृथक्करणम्, 'पञ्चेन्द्रियाणाम् ' - श्रोत्रादीनाम्, ' विषयात् ' - स्वस्वविषयेभ्यः, ' विरामः ' - विरक्तिः, निवृत्तिरितिभावः, तथा ' ध्यानात्मबोधादि ' - ध्यानं आत्मज्ञानादिकश्च तैः, ' कथं विधीयते ' - किं क्रियते ? ।। ७-८ ॥
•
'
ܐ
मूलम् - एषैव सेवा ननु विष्णुब्रह्मा - दीनां तदेयं कुत आश्रिताऽस्ति ? |
भोस्तेभ्य एवेति तदा न तेषाम्, वागस्ति हस्तोऽपि यतोऽन्यबोधः ॥ ९ ॥ टीका - अत्राऽऽशङ्कते - एषैवेत्यादिना ' नन्वि 'ति वितकें, 'विष्णुब्रह्मादीनाम् ' - विष्णुब्रह्मप्रभृतीनाम् ' एषा 'पूर्वोक्ता, 'सेवैव ' - सेवनमेवाऽस्ति, तपश्चर्यादिकं विष्णुब्रह्मादीनां सेवैवाऽस्ति, ननु सेवातः पृथक्कृत्यमितिभावः अस्योत्तरमाह - तदेत्यादिना - यदि त्वमेवं वक्षि ' तदा ' - तर्हि, ' इयं ' - सेवा, तपश्चर्यादिरूपसेवेतिभावः, 'कुत आश्रिताऽस्ति ? ' -
१. ज्ञानम् ।