________________
स्वरूपो ज्ञानात्मना व्यापकत्वेनाऽऽत्मा विष्णुरुच्यते, परब्रह्मसंज्ञनिजशुद्धात्मभावनात्मकत्वेन स ब्रह्मोच्यते कर्ममुक्तः सन् सिद्धत्वाऽवस्थामधिश्रितो निर्वाणं प्राप्तत्वात् स शिव उच्यते तद्वतीयं च शक्तिरुच्यत इतिभावः ॥५॥ मूलम्-इत्थं हि सर्वैरपि विष्णुमुख्यैः, शब्दैरसावात्मक एव बोध्यः।
ततस्त्वतो मुक्तिरियं न कस्मात्, प्राप्येति तत्त्वं हृदि तैरपीक्ष्यम् ॥ ६॥ टीका-फलितमाह-इत्थमित्यादिना 'इति'-निश्चयेन, ' इत्थम् '-अनया रीत्या, 'सर्वैरपि '-सकलैरपि, 'विष्णुमुख्यैः '-विष्णवादिभिः शब्दैः, ' असौ'-पूर्वोक्तः, 'आत्मक एव'-जीव एव, 'बोध्यः '-ज्ञेयो भवति, 'ततः'तस्मात् कारणात् , ' तु' शब्दश्वरणपूत्तौं, ' अत:'-आत्मनः, आत्मज्ञानादितिभावः, ' इयं'-पूर्वोक्ता मुक्तिः , 'कस्मान्न प्राप्या'-कुतो न लभ्याऽस्ति ? ' इति '-एतत् , ' तत्वं '-यथार्थविषयः, 'तैरपि '-विष्णवादिभिरपि, 'हृदि '-हृदये, | 'ईक्ष्यम् '-विचारणीयम् ॥ ६॥ मूलम्-चेन्नेति विष्णुप्रमुखेभ्य एभ्यः, मुक्तिस्तदा वैष्णवमुख्यलोकाः।
सन्तो गृहस्था इह विष्णुमुख्यान, एवार्चयन्तः परितो जपन्तु ॥ ७॥ परं तपः संयमयुक्तता क्षमा, निःसङ्गता रागरुषापनोदो।
पञ्चेन्द्रियाणां विषयाद्विरागो, ध्यानात्मबोधादि विधीयते कथं ? ॥ ८॥ १. विचारणीयम् ।