________________
BG960€8699565ÉCIÉTÉSO996
Ind चनप्रयोगः जीवानामरूपित्वात् कर्मणां च रूपित्वाद् भिमा जातिः तथा च सति भिन्नजात्योरनयोर्योगः कथमजायते ? इति
प्रश्नाभिप्रायः । अत्रोत्तरमाह-'एप' पूर्वोक्तो योगः 'इह' अस्मिल्लोके जीवकर्मणोर्या 'अनादिससिद्धः' अनादिकालेन निष्पनः | Iam 'उच्यते' कथ्यते । अत्र दृष्टान्तद्वयमाह-हेमाश्मनोर्वेत्यादिना, वाशब्दोत्र इव शब्दार्थः, दृष्टान्तद्वयेऽपि च डमरुकमणिन्यायेनाभिस
म्बध्यते । हेमाश्मनोरिव स्वर्णपापाणयोरिवअरणिचित्रभान्वोरिव अरणिकाष्ठवहेरिव च। सतेजस्कनिस्तेजस्कत्वादिप्रकारभिभजात्योर्यथा 0 सुवर्णपापाणयोरिव अरणिधूमध्वजयोरिव या योगो भवति तथा भिन्नजात्योर्जीवकर्मणोरप्यनादिसंसिद्धो योगो विज्ञेय इत्यर्थः ॥७॥ मूलम्--दुग्धाज्ययोर्वा युगपद्भवोऽस्त्ययं, यथा पुनः पायकसूर्यकान्तयोः।
सुधा 'सुधाभृच्छिलयोः सहोत्थितः, कर्तुर्गुणा नामथ कर्तृवादिनाम् ॥८॥ टीका-पक्षान्तरेणोक्तविपये दृष्टान्तचतुष्टयमाह-दुग्धाज्ययोर्वेत्यादिना । 'वा' अथवा अयं पूर्वोक्तो योगो युगपद्भवोऽस्ति एक समयभावी वर्तते । कथम् इति ? आह-दुग्धाज्ययोर्दुग्धघृतयोः इवपदस्याध्याहारो विधेयः । दृष्टान्तरमाह-यथा पुनरित्या|| दिना पुनर्यथा पावकसूर्यकान्तयोः अग्निसूर्यकान्तमण्योः सहोत्थितो युगपदुत्पन्नो योगोऽस्ति । पुनदृष्टान्तरमाह सुधेत्यादिना,
१ चन्द्रकान्नयोः । २ ये तु जगतः सकर्तृत्वमाहुस्तेषां कर्तृवादिना मते यथा कर्तुर्गुणानां च सत्वादीनां मिथ सम्बन्धोऽनादि10 संसिद्धः न हि निर्गुणः कर्ता जगत्करणे समर्थों भवितुमर्हति, कर्तुनिः क्रियत्यान्निरअनत्वात सगुणत्वं न स्यात् तदभावे च फटुंत्वं
न सम्भवतीति; एवमपि न वक्तुं शक्यं यत्की सृष्टिकर्मणि प्रवृत्तः सगुणोऽन्यथा निर्गुणः । एवमुच्यमाने सति कर्तुरनेकस्वभावत्वादनित्यत्वं तथा तु कर्तुरभावः स्यात्, इदं तु कर्तृवादिनां न मतम, तम्मते च कर्तरि रागुणत्वं निर्गुणत्यं च यमपि बक्तव्य यथा निरशने नि:क्रिये फर्तरि सगुणत्यमन्ती तथात्मन्यपि फर्मसंयोगः ।
Bleaseeeeeeeeeeeeeeeee
Ame
o
- -one
on-meena