________________
@@@@@eDED:CE
म्भूतानि तानि कर्माणि ? 'शुभाशुभानि' शुभानि चाशुभानि चेति द्वन्दः ॥४॥
मूलम्---अनन्तसङ्गयाः किल कर्मवर्गणा, जीवप्रदेशे परिकल्प्य 'एकके।
शुभाशुभाः केवलहष्टिदृष्टा, मुक्ता अमूभ्यः खल ते हि सिद्धाः ॥५॥ ___टीका-अनन्तसङ्ख्या इत्यादि 'किल' इति निश्चये 'एकके' एकैकस्मिन् जीवप्रदेशे 'कर्मवर्गणाः कर्मसमूहाः 'अनन्त- - सङ्खया' असङ्ख्याताः सन्तीति शेषः, कथम्भूते जीवप्रदेशे ? 'परिकल्प्ये' मनोबुद्धया परिकल्पनीये, कथम्भूताः कर्मवर्गणाः ? 'शुभाशुभा' शिवाशिवाः, पुनः कथम्भूताः १ 'केवलदृष्टिदृष्टाः केवलदृष्टिः-केवलज्ञानं तया दृष्टाः-दर्शनगोचरीकृताः केवलज्ञान| गम्या इति यावत् । मुक्ता इत्यादि खलु शब्दो निश्चयाथै हि शब्दः चरणपूतौं ते पूर्वोक्ता जीवा 'अमूभ्यः' पूर्वोक्ताभ्यः कर्मवर्गणाभ्यो 'मुक्ताः' कर्मवर्गणा विरहिता इत्यर्थः सिद्धा उच्यन्ते इति शेषः॥५॥
कर्माणि समग्रलोकाकाशश्रितानि-अतो जीवाः कर्मभिरावृताः। मूलम्-अतस्तु कर्माणि समग्रलोका-काशाश्रितानीह निरन्तराणि।
तेनैव जीवा हि भवन्ति कर्मा-वृता 'वसूनीव मृदाविलानि ॥६॥ १ एफस्य जीवस्यासजन्याता: प्रदेशाः तेषामेकस्मिमपि मनोबुद्धया परिकल्पये प्रदेशेऽनन्तकर्मवर्गणाः सन्तीति । २ वसूनि स्वर्णानि रत्नानि वा, यथा खन्यादौ स्वर्णानि रत्नानि वा समुत्पयमानानि मृदा मृत्तिकया सह व्याप्तान्येव च्छमान्येव समुत्पधन्ते तथा जीवा अपि संसारस्थाः कर्मावता एव भवन्तीति सम्यन्धः ।
19696969696999696999699:6
@
@@
-
-
-
-
@@@@@