________________
तदाश्रितार्थादिकृतेस्तु तस्य, सत्ता तथा शक्तिमहेशवीराः ।
भूतं सती जाङ्गुलिका सपत्नी, सिद्धायिकादेरपि तद्वदेव ॥ १८ ॥
टीका - उदाहरणान्तरमभिधातुकाम आह - तथेत्यादि ' तथे 'ति समुच्चये, 'औषधीमन्त्र गुडाविशेषैः ' - औषधमंत्र गुटिकाविशेषः, तथा ' लोकाञ्जनैः ' - अदृश्य करणाज्जनेन, 'गुप्ततनोर्नरस्य ' - गुप्तशरीरस्य जनस्य, 'मूर्ति' - शरीरम्, 'तु ' शब्दश्चरणपूत्त, ' नृणाम् - पुरुषाणाम्, ' दृक्पथं नो एति ' - नेत्रमार्गम् नाऽऽयाति, नेत्रेण न दृश्यत इतिभावः, 'तत्' - तर्हि, ' सः ' - गुप्तशरीरो नरः, ' नास्ति ' - न विद्यते, ' इति ' - एतत्, 'खैः ' - इन्द्रियैः, ' किं न गृह्यते ' - किं न निश्री - यते ? अपि तु नास्तींद्रियैर्निश्चीयत एवेतिभावः, 'त्वि 'ति किन्त्वित्यर्थः, 'तदाश्रितार्थादिकृतेः ' - तस्य - गुप्त शरीरस्याऽऽश्रितो योऽर्थः आनयनमोचनादिकं कार्यं तदादिकृतोस्तत्प्रभृतिकरणात् तस्य गुप्तशरीरस्य सत्ताभावोऽस्ति त्वमित्यर्थः सिद्ध्यति, 'तथे 'ति समुच्चये, ' तद्वदेव ' -उक्तरीत्यैव, गुप्तशरीरपुरुपवदेवेत्यर्थः शक्तिः, महेशः, वीरः, भूतम्, सती, जाङ्गुलिका, सपत्नी, इत्येतेषाम्, तथा ' सिद्धायिकादेरपि - सिद्धायिकाप्रभृतिकस्याऽपि सिद्धिर्भवति ॥ १७-१८ ॥
चेष्टया दृष्टमपि मन्तव्यं पञ्चदशश्लोकैराह -
१९ ॥
मूलम् - एतस्य सिद्धौ हि परोक्षसिद्धिः, तत्सेधनात् स्वर्गपरेतसिद्धिः । न दृश्यते यन्ननु चेष्टयापि, कथं हि तदूवस्तु सदिष्यते भोः ॥ ९. तस्याश्रित यत्कार्य आनयनमोचनादिकं तस्य करणात् । २. नरक । ३. नास्तिकः पुनः प्राह ।
१७