________________
"तदा'-तर्हि, माणिक्यमुख्यानाम् ' भिन्नविभिन्नवक्रयः'-भिन्न भिन्नं मूल्यं, 'कथं '-कुत उच्यते ? 'परन्तु 'किन्तु, 'कश्चित् '-कोपि, 'प्रतिभाविशेषः '-प्रत्युत्पन्नमतित्वं, प्रतिभा तस्य विशेषः-वैशिष्टम् भवति, 'येन'-यद्वशात् , 'तद्गतमूल्यनिश्चयः '-माणिक्यस्य मूल्यनिश्चयनम् , ' उच्यते'-कथ्यते ।। १४-१५ ॥
मूलम्-तथाहिफेनादिकजोटकेषु, प्रायो विमुह्यन्ति समेन्द्रियाणि ।।
प्रमाणमेतेषु तदुत्थमत्तता, तेनेन्द्रियज्ञानमृतं न सर्वम् ॥१६॥ टीका-उदाहरणांतरमाह-तथेत्यादिना 'तथे 'ति समुच्चये, 'अहिफेनादिकजोटकेषु'-अहिफेनादिपदार्थयोगेषु, 'प्रायः'-बहुधा, ' समेन्द्रियाणि '-सर्वाणींद्रियाणि, 'विमुह्यन्ति'-मोहं प्राप्नुवन्ति, अज्ञानयुक्तानि भवन्तीतिभावः, 'एतेषु'-अहिफेनादिकजोटकेषु, अहिफेनादिकजोटकपरिच्छेदेष्वित्यर्थः, 'तदुत्थमत्तता'-अहिफेनादिजोटकोत्पन्नोन्मत्तता, 'प्रमाणं'-प्रमाणरूपा भवतीति, फलितमाह-तेनेत्यादिना 'तेन'-कारणेन, 'सर्वे '-सकलं, ' इन्द्रियज्ञानं'-श्रोत्रादींद्रियजन्य ज्ञानम् , 'ऋतं'-सत्यं नास्ति ॥ १६ ॥
मूलम्-तथौषधीमन्त्रगुडाविशेषै-लोकांजनप्ततनोनरस्य।
मूर्तिस्तु नो दृक्पथमेति नृणां, तर्तिक से नास्तीति न गृह्यते खैः ॥१७॥ १. सत्यं । २. गुटिका । ३. अदीकरणाअनेन । ४. शरीरं । ५. गुप्ततनुः ।
LAVA