________________
*SRISE
ISRKERCENSESS
तस्मिन् पदार्थे, 'नेत्रश्रवसोः'-नयनकर्णयोः, 'ज्ञान' 'तदर्थकृत्-तदर्थकारिः, तत् पदार्थप्रयोजनग्राहयितुं न भवति ॥११॥ मूलम्-यथा सिताभ्रादिसुगन्धिवस्तुषु, श्रोनाक्षिनासारसनासमुत्थं ।
ज्ञानं यदप्यस्ति तथापि केषुचि-त्तेषु-प्रमाणं रसनावबोधनम् ॥ १२ ॥ टीका-उक्तविषयस्योदाहरणमाह-यथेत्यादिना 'यथा'-येन प्रकारेण, ‘सिताम्रादिसुगन्धिवस्तुषु,'-करादिसुगंधयुक्तपदार्थेषु, यदपि ' यद्यपि, 'श्रोत्रादिनासारसनासमुत्थं ज्ञानमस्ति'-कर्णनेत्रप्राणजिह्वोत्पन्नं ज्ञानं विद्यते, 'तथापि'-तदपि, 'तेषु' तेषां मध्ये, 'केषुचित् '-केष्वपि पदार्थेषु, 'रसनावबोधनम्।'-जिहेंद्रियज्ञानं, 'प्रमाणं'प्रमाणरूपम् भवतिः॥ १२॥ मूलम्--स्वर्णादिके वस्तुनि'कर्णनेत्र-ज्ञानं स्फुरत्येव तथापि तत्र।
निर्घर्षणादिप्रभवोऽववोध-स्तदर्थसत्याय न केवलाक्षम् ॥ १३ ॥ . टीका-उदाहरणांतरमाह-स्वर्णादिक इत्यादिना ' स्वर्णादिके वस्तुनि'-सुवर्णादिपदार्थे, यद्यपि, 'कर्णनेत्रज्ञानं 'श्रोत्रचक्षुर्ज्ञानं, 'स्फुरत्येव'-निश्चयेन प्रस्फुरणं गच्छति, तथापि 'तत्र'-स्वर्णादिके वस्तुनि, 'निर्धर्षणादिप्रभवोऽववोध:'
१. सत्स्वपीन्द्रियेषु इन्द्रियज्ञानात् निर्धर्षणच्छेदनतापताडनोत्थपरीक्षाभवं यत् शानं तदेव स्वर्णादिसत्यतासम्पादकं स्यात् न हि स्वर्णशब्द श्रुते चक्षुा स्वर्णवणे य दृष्टे स्वर्ण सत्यमिति वक्तुं शक्यते किन्तु निर्घर्षणादिभवेन तिश्च कषपट्टलो* हाग्न्यादिहेतुजं तत्संयोगानन्तरमेव तन्द्रियगोचरप्रवृत्ति स्वतस्तत्मागेवेति विचार्यम् ।