________________
-
-
-
केचिचित्यादिना 'तु' शब्दो व्यतिरेकप्रदर्शनार्थः, 'ही'ति चरणपूत्तौं, निश्चये वा, ये 'केचित् ' केऽपि, 'संयोगभवा:संयोगजन्या:, परसंयोगजाता इतिभावः, 'शब्दा भवन्ति'-ते शब्दाः सन्त्येव, वर्तन्त एव, 'केपांचित् '-संयोगजानामपि, शब्दानां वाच्यः पदार्थों विद्यते एवेतिभावः, तेन किं भवतीत्याह-तद्विरह इत्यादिना 'प्रायः'-बहुधा, ' तद्विरहः'तेषां शन्दानां वियोगः, तद्वाच्यवस्तूनां वियोग इत्यर्थः, न भवति एतदुदाहरणान्याह-यथा हीत्यादिना 'ही'ति चरणपूर्ती, 'यथा'-येन प्रकारेण, गोशृंगेत्यादि'-गोशंग-गोपिाणं, नरेन्द्रकञ्जः-नृपतिकेशः, अवनीरुहः-वृक्षः, गोपतिः-गोपाल, 18 भूधर:-पर्वतः, 'इत्याद्याः-एतत्प्रभृतिकाः शब्दा भवन्ति, 'च'-पुनः, 'अनेके '-बहवः शब्दा:, संयोगजन्या:, तथा 'वियोगत'-वियोगेन, पदवियुक्तिजन्या इतिभावः, 'सन्ति'-वर्तन्ते, ते 'विबुधैः'-विपश्चिद्भिः, 'विवेच्याः'-विवेचनीया:, स्वयमूह्या इत्यर्थः ॥९-१०॥ मूलम्-श्रोत्राक्षिमुख्येन्द्रियरूपाथे, परन्त्वतन्नामनि तस्य नाम्नि।
अर्थे तथाऽन्याश्रितरूपवेषके, ज्ञानं न नेत्रश्रवसोस्तदर्थकृत् ॥ ११॥ टीका-ऐंद्रियज्ञानस्य न सर्वथाऽर्थपरिच्छेदकत्वमिति वक्तुकाम आह-श्रोत्राक्षीत्यादि 'श्रोत्राक्षिमुख्येंद्रियरूपग्राह्ये'कर्णनेत्रादींद्रियग्रहणीये कर्पूरादिवस्तुनि, ' परन्तु ' 'अतन्नाम्नि'-तद्भिन्ननाम्नि, लवणादिखण्ड इत्यर्थः, 'तस्य नाम्नि'कर्पूरादिनामके पदार्थे, 'तथेति समुच्चये, 'अन्याश्रितरूपवेषकेऽर्थे '-अन्यस्य-द्वितीयस्याश्रितौ रूपवेषौ येन सः, ' तथा'१. वस्तुनि । २. लवणादिखण्डे । ३. कर्पूरादे मनि पदार्थे इत्यर्थः ।
USASUSESSOskustees OSOS
-