________________
-
70
-
-
वियोगयोगः '-दारिद्यम्-निर्धनता मात्रादीनां वियोगः-जनन्यादीनां विरहस्तयोर्योगः-प्राप्तिर्भवति, 'अथे 'ति-अनन्तरे, टू 'जन्मकुण्डलीमध्ये '-जन्मपत्रिकायाम् , ' अस्य '-पूर्वोक्तस्य पुत्रस्य, 'ग्रहाः'-सूर्यादयोऽपि, 'न शस्ताः'-न प्रशंसनीया भवन्ति, अतो व्यतिरेकमाह-अन्यत्रेत्यादिना 'तथे 'ति समुच्चये, 'तु' शब्दो व्यतिरेकप्रदर्शनार्थी, 'अन्यत्र - अन्यस्मिन् पुत्रे, 'प्रजाते '-उत्पन्ने सति, 'सुकर्मतः '-शोभनकर्मणः, पूर्वकृतशुभकर्मवशादितिभावः, 'सम्पत्तिमात्रादिसुखं '-ऐश्वर्य जनन्यादीनां च सौख्यम्, तथा 'प्रभुत्वं ' स्वामित्वम् भवति, 'तु' शब्दश्चरणपूर्ती, 'अस्य'-पूर्वोक्तस्य, 'अन्यस्य'-पुत्रस्य, 'जन्मपत्रिकामध्ये '-जन्मकुंडल्यां, 'ग्रहाः '-सूर्यादयोऽपि, 'विशिष्टाः '-उत्कृष्टाः, प्रशस्ता इतिभावः, 'पतिताः'-वर्तमाना भवंति ॥ ४४-४५ ।। मूलम्-चतुर्थभेदस्तु परत्र कर्म, कृतं परत्रैव फलप्रदं भवेत्।
यदत्र जन्मे विहितं तृतीय-भवे विधत्ते फलमात्मगामुकम् ॥ ४६ ॥ टीका-चतुर्थभेदं दर्शयितुमाह-चतुर्थभेदस्त्वित्यादि चतुर्थभेदस्त्वयमस्तीतिभावः, यत् 'परत्र'-परलोके, 'कृतं '-विहितम्, कर्म, 'परत्रैव'-परलोक एव, 'फलप्रदं भवेत् '-फलदायकं स्यात्, 'यत् 'अत्र'-अस्मिन् , 'जन्मे'-भवे, जन्मशब्दोऽदंतोऽपि कैश्चिन्मता, 'विहितम्'-कृतं कर्म, 'तृतीयभवे'-तृतीये जन्मनि, 'आत्मगामुकम्'आत्मभावि फलं, 'विधत्ते '-करोति ॥ ४६॥ १ जन्मशब्दोऽदन्तोऽप्यस्ति ।
ShootOSKOSMOSOS