________________
मूलम् - सत्या यथा सत्त्वमिहाश्रितं पुनः शरेण शौर्य परजन्मभोगदम् । तृतीय भेदस्तु परत्र कर्म, निर्मातमत्रासुखसौख्यदायि
॥ ४३ ॥
Cata
टीका - द्वितीयभेदस्यैव दृष्टान्तरमाह-सत्या इत्यादिना ' यथा ' - येन प्रकारेण, ' इह ' - अस्मिन् संसारे, " सत्या 'पतिव्रतया, ' आश्रितम् ' - अवलंबितम्, आचरितमितिभावः, 'सत्त्वं ' - पातिव्रत्यम्, 'पुनरि 'ति समुच्चये, 'शूरेण - वीरपुरुषेण, आश्रितम्, 'शौर्य' - वीरत्वम्, 'परजन्मभोगदं ' - परलोके फलदायकम् भवति, तृतीयं मेदं दर्शयितुमाहतृतीयमेदस्त्वित्यादि ' तृतीयमेदस्त्वि 'ति - तृतीयो भेदस्त्वेप विद्यत इत्यर्थः यत् ' परत्र - परलोके, 'निर्मातं ' - कृतम्, कर्म, ' अत्र ' - अस्मिन् भवे, ' असुखसौख्यदायि ' - दुःखसुखदायकम् भवति ॥ ४३ ॥
मूलम् - एकत्र पुत्रे तु तथा प्रसूते, दारिद्र्यमात्रादिवियोगयोगः |
अस्य ग्रहा अप्यथ जन्मकुण्डली - मध्ये न शस्ताः कृतकर्मयोगात् ॥ ४४ ॥ अन्यत्र पुत्रे तु तथा प्रजाते, सम्पत्तिमातादिसुखं प्रभुत्वम् ।
अपि ग्रहा अस्य तु जन्मपत्रिका - मध्ये विशिष्टाः पतिताः सुकर्मतः ॥ ४५ ॥ टीका - अत्रैव दृष्टान्तद्वारा पुष्टिमाह - एकत्रेत्यादिना 'तथे 'ति - तद्यथेत्यर्थः, 'एकत्र ' - एकस्मिन्, 'पुत्रे' - तनये, 'प्रसूते'जाते सति, ' तु' शब्दो वक्ष्यमाणवाक्यविश्लेषद्योतकः, ' कृतकर्मयोगात् ' – विहितस्य कर्मणः संबंघेन, 'दारिद्र्यमात्रादि
१. एकस्मिन् । २. प्राप्तिः ।