________________
मूलम्-द्वेषी च रागी भवतां स कर्ता, य ईदृशीमाचरति प्रतिक्रियाम् ।
नामैवमस्त्वस्तु परं य एनं, निन्देन्नं वन्देत गतिस्तु कास्य ॥४५॥ टीका-उक्तपक्षं परिहर्तुमाह-द्वैपी चेत्यादि एवं च सति ' सः'-पूर्वोक्तः, ' भवतां '-भवत्संबंधी, भवदभिमत इतिभावः, 'कर्ता'-जगत्कारका, विष्णुरितिभावः, 'च' शब्दो समुच्चये, 'द्वेषी '-द्वेषयुक्तः, 'रागी'-रागयुक्तश्च प्रामोति, 'या''ईदृशीम् '-एवंभूता, 'प्रतिक्रियाम् '-प्रतीकारं, 'आचरति '-करोति, वादी पाह-नामेत्यादिना ' नामे 'तिसंभाव्ये, एवमस्त्विति, रागद्वेषयुक्तः स्यात् का नो हानिरित्यर्थः, अस्य प्रतिक्षेपमाह-अस्तीत्यादिना ' अस्त्विति'-तवोक्तकथनं खादित्यर्थः, 'परम् '-परन्तु, 'यः'-जंतुः, 'एनं' कर्तारम् , 'न निंदेत्'-न गर्हयेत्, न च 'वंदेत्'-नमस्कुर्यात् , डमरुकमणिन्यायेन नेति रहस्योभयप्रयोगः 'अस्य '-पूर्वोक्तप्राणिनस्तु, 'का गतिः ?'-कीदृशी व्यवस्था भवेत् ? ॥४५॥ मूलम्-लोके त्रिधा स्याह्नतिरेकवस्तुनो-यत्सेवकासेवकमध्यमात्मिकाः।
आद्योयोश्चेद्गतिरस्ति तर्हि, मध्यस्थजन्तोरपि साऽस्तु काचित् ॥ ४६॥ टीका-अत्रैव पुष्टिमाह-लोक इत्यादिना 'लोके'-संसारे, 'एकवस्तुनः'-एकपदार्थस्य, 'त्रिधा'-त्रिप्रकारा, 'गतिः'-दशा, ' स्यात् ' भवति, ' यत् सेवकासेवकमध्यमात्मिकाः' इति-सेवकात्मिका मध्यमात्मिका च सेवकस्वरूपा मध्यमस्वरूपा चेतिभावः, 'चेत्'-यदि, 'आयोः'-प्रथमयोः, 'द्वयोः'-उभयोः, सेवकासेवकयोयोरित्यर्थः, 'गतिः'
१. मध्यस्थनकारस्योभयनसम्बन्धो डमरुकमणिवत् । २. सेवकासेवकयोद्धयोः । ३. उदासरूपस्य गतिः ।
-