________________
यदि त्वमेवं ब्रूया इत्यर्थः, यत् 'कर्तुः'-कारकस्य, विष्णोरित्यर्थः, 'शक्तेः'-सामर्थ्यात् , 'सा'-माया, चरितुम् 'समर्थाशक्ताऽस्ति, तदा'-तर्हि, सुखदुःखदः'-सौख्यक्लेशयोर्दाता कतैव विष्णुदेवः, 'अस्तु'-भवतु, अत्र दोषमाह-किं कर्तुरित्यादिना एवं च सति ' एतैः'-जन्तुभिः, 'कर्तुः'-विष्णोः, 'किमपराद्धमस्ति'-कोऽपराधः कृतोऽस्ति, 'चेत् 'यत् , ' ईदृशीम् '-इत्थं भूतां, सुखदुःखदामितिभावः, 'तां'-मायां, 'जीवं प्रति '-जीवमुद्दिश्य, 'ईते'-प्रेरयति, इत्थं च सति दोषमाह-निरागसामित्यादिना ' य:'-विष्णुः, 'निरागसां'-निरपराधानां, 'प्राणभृतां'-प्राणिनाम् , 'ईडगूदुःखादिकर्ता '-ईदृश:-उक्तप्रकारकस्य दुःखादेः कर्ताऽस्ति, 'ही'ति निश्चये, 'स'' कथं '-केन प्रकारेण, 'कर्ता'जगनिर्माता भवितुं शक्नोति ॥ ४२-४३॥
मूलम्-ध्यायन्ति ये नेशमिमेऽस्य सागसौ-स्तेषामसौ दुःखकरः प्रथेत्यहो।
- ये त्वीशमेनं प्रति सेवमाना,-स्तेषामयं सातततिं विधत्ते ॥४४॥ टीका-अत्र वादी पाह-ध्यायंतीत्यादि ये 'इमे'-जन्तवा, 'ईशं'-विष्णुं, 'न ध्यायन्ति'-न चिंतयन्ति, 'अस्सस्वस्य, ते 'सागसा:'-सापराधाः सन्ति, 'तेषां'-जन्तूनाम् , 'असौ'-विष्णुः, 'दुःखकरः'-दुःखकर्ता दुःखप्रदर्शितभावो भवति, 'अहो' इति-सम्बोधने, 'प्रथा'-रीतिरस्ति, 'ये'-जन्तवस्तु, 'एनम् '-पूर्वोक्तम्, 'ईशं'-विष्णुं, प्रति, 'सेवमाना:-सेवनकर्तारः सन्ति, 'तेपास्'-जंतूनाम् , 'अयं'-विष्णुः, 'साततति'-सौख्यसमूह, 'विधत्ते'- करोति ॥४४॥
१. कर्तुः । २. सापराधाः । ३. सेवकानाम् । ४. प्रसिद्धिः ।