________________
( ११४ )
वृत्ति - प्राणभूतं जीवितभूतं चरित्रस्य देशचारित्रस्य सर्वचारित्रस्य च परब्रह्मणो मोक्षस्य एकमद्वितीयं कारणं समाचरन् पालयन् ब्रह्मचर्यं जितेन्द्रियस्योपस्थनिरोधलक्षणं पूजितैरवि सुरासुरमनुजेन्द्रैः न केवलमन्यैः पूज्यते मनोवाक्कायोपचारपूजाभिः ॥
भाषार्थः - यह ब्रह्मचर्य व्रत चारित्रका जीवितभूत है, मोक्षका कारण है, जितेन्द्रियता इसका लक्षण है, देवों करके पूज्यनीय है ||
चिरायुः सुसंस्थाना दृढं संहनना नरा ॥ तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥ २ ॥
वृत्ति - चिरायुषो दीर्घायुपोऽनुत्तरमुरादिपूत्पादात् शोभनं संस्थानं समचतुरस्रलक्षणं येषां ते सुसंस्थानाः अनुत्तरसुरादिधूत्पादादेव दृढं वलवत् संहनमस्थिसंचयरूपं वज्रऋपभनाराचाख्यं येषां ते दृढसंहननाः एतच्च मनुजभवेत्पद्यमानानां देवेषु संहननाभावात् तेजः शरीरकान्तिः प्रभावो वा विद्यते येषां ते तेजस्विनः महावीर्या वळवत्तमाः तीर्थंकर चक्रवत्र्त्यादित्वेनोत्पादात् भवेयुर्जायेरन ब्रह्मचर्यतो ब्रह्मचर्यानुभावात् ॥
भाषार्थः - दीर्घ आयु सुसंस्थान दृढ संहनन ( पूर्ण शक्ति ) शरीरकी कान्ति महा पराक्रम यह सर्व ब्रह्मचर्य धारण ही