________________
९७
एहोलेका लेख विधिवदुपचिताभिः शक्तिभिः शक्रकल्प
स्तिसृभिरपि गुणाः खैश्च माहाकुलाद्यैः । अनमदधिपतित्व यो महाराष्ट्रकाणां
नवनवतिसहस्रग्रामभाजा त्रयाणाम् ॥ २५ ॥ गृहिणा वगुणैत्रिवर्गतुङ्गा विहितान्यक्षितिपालमानभङ्गाः । अभवन्नुपजातभीतिलिझा यदनीकेन सकोसलाः कलिङ्गाः॥२६॥ पिष्ट पिष्टपुरं येन जात दुर्गमदुर्गमम् । चित्र यस्य कलेत्त जात दुर्गमदुर्गमम् ॥ २७ ॥ संनद्धवारणघटास्थगितान्तराल
नानायुवक्षनरक्षतजाङ्गरागम् । आसीजल यदवमर्दितमभ्रगर्भा
केंणालमम्बरमिबोर्जितसाध्यरागम् ।। २८ ॥ उद्भूतानलचामरध्वजशतच्छत्रान्धकारवले.
शौर्योत्साहरसोद्धितारिमयनैौलादिभिः पड्विधैः । आक्रान्तात्मबलोन्नतिं बलरजःसछन्नकाञ्चीपुरः
प्राकारान्तरितप्रतापमकरोद्यः पल्लवानां पतिम् ॥२९॥ कावेरी द्रुतशफरीविलोलनेत्रा चोलाना सपदि जयोद्यतस्तस्य (८) । प्रश्चयोतन्मदगजसेतुरुद्धनीरा सस्पर्श परिहरति स्म रत्नराशेः ॥३०॥
चोलकेरलपाण्ड्याना योऽभूत्तत्र महर्द्धये । पल्लवानीकनीहारतुहिनेतरदीधितिः ॥ ३१ ॥ उत्साहप्रभुमन्त्रशक्तिसहिते यस्मिन्समन्ताहिशो
जिन्या भूमिपतीन्विसृज्य महितानाराध्य देवद्विजान् । शि०७