________________
जैन-गिलालेख संग्रह वरदातुङ्गतरङ्गङ्गविलसद्धंसानदीमेखला
वनवासीमवमृगतः सुरपुरप्रस्पर्धिनी संपदा । महता यस्य बलार्णवेन परितः सछादितोर्वातल
स्थलदुर्ग जलदुर्गतामिव गत तत्तन्क्षगे पश्यताम् ॥१८ गङ्गाम्बु पीत्वा व्यसनानि सप्त हित्वा पुरोपार्जितसपदोऽपि । यस्यानुभावोपनताः सदासन्नासन्नसेवामृतपानशौण्डा ॥१९॥ कोकणेषु यदादिष्टचण्डदण्डाम्बुवीचिभिः । उदस्तास्तरसा मौर्यपालाम्बुसमृद्धयः ॥ २० ॥ अपरजलधेलक्ष्मी यस्मिन्पुरी पुरभिन्प्रभे
मदगजघटाकारैर्नावा शतैरवमृद्गति । जलदपटलानीकाकीर्ण नवोत्पलमेचक
जलनिधिरिख व्योम व्योन्नः समोऽभवदम्बुधिः ॥ २१ ॥ प्रतापोपनता यस्य लाटमालवगूर्जराः । दण्डोपनतसामन्तचर्या वर्या इवाभवन् ।। २२ ॥ अपरिमितविभूतिस्फीतसामन्तसेना
मुकुटमणिमयूखाक्रान्तपादारविन्दः । युधि पतितगजेन्द्रानीकवीभत्सभूतो
भयविगलितहो येन चाकारि हर्षः ।। २३ ।। भुवमुरुभिरनीकैः शासतो यस्य रेवा
विविधपुलिनशोभावन्ध्यविन्थ्योपकण्ठा । अधिकतरमराजत्वेन तेजोमहिम्ना - शिखरिभिरिभवा वर्मणा स्पर्धयेव ॥ २४ ॥