________________
कडवका लेख
१३७ मनोजात इव मानिनीजनमनस्थलीय. (?) रणचतुरश्चतुरजनाश्रय श्रीसमालिङ्गितविशालवक्षस्थलो नितरामशोभत । असौ महात्मा
कमलोचितसद्भुजान्तरश्रीविमलादित्य इति प्रतीतनामा ।
कमनीयवपुर्विलासिनीना भ्रमदक्षिभ्रमरालिवक्रपद्म ॥ य प्रचण्डतरकरवालदलितरिपुनृपकरिघटाकुम्भमुक्तमुक्ताफलविकीर्णितरुचिरक्ताधिकान्तिरुचिरपरीतनिजकलत्रकण्ठः शितिकण्ठ इव महितमहिमामोद्यमानरुचिरकीर्तिरोपगङ्गमण्डलाधिराज श्रीचाकिराजस्य भागिनेय भुवि प्रकाशत यस्मिन् कुनुन्गिलनामदेशमयश.पराड्यखा मनुमार्गेण पालयति सति श्रीयापनीयनन्दिसंघपुंनागवृक्षमूलगणे श्रीकियाचार्यान्वये बहुष्वाचार्येष्वतिक्रान्तेषु व्रतसमितिगुप्तिगुप्तमुनिवृन्दवन्दितचरणकूविलाचार्याणामासीत् (?) तस्यान्तेवासी समुपनतजनपरिश्रमाहार खदानसंतर्पितसमस्तविद्वज्जनो जनितमहोदय विजयकीर्तिनाम, मुनिप्रभुरभूत् ।
अर्ककीर्तिरिति ख्यातिमातन्वन्मुनिसत्तमः ।
तस्य शिष्यत्वमायातो नायातो वशमेनसाम् ॥ तस्मै मुनिवराय तस्य विमलादित्यस्य शणेश्वर ( ? )पीडापनोदाय मयूरखण्डिमधिवसति विजयस्कन्धाबारे चाकिराजेन विज्ञापितो वल्लमेन्द्र इडिगूर्विषयमध्यवार्तन जालमङ्गलनामधेयग्राम शकनृपसंवत्सरेषु शरशिखिमुनिषु (७३५) व्यतीतेषु ज्येष्ठमासशुक्लपक्षदशम्यां पुष्यनक्षत्रे चन्द्रवारे मान्यपुरवरापरदिग्विभागालकारभूतशिलाग्रामाजनेन्द्रभवनाय दत्तवान् तस्य पूर्वदक्षिणापरोत्तरदिग्विभागेषु वस्तिमङ्गल__ १ 'प्रकागते यस्मिन्' यह पाठ मालम पड़ता है। २ 'परायखे' यह अपेक्षित है। 'श्रीकीाचार्य' जान पड़ता है । ४ 'जिनेन्द्र' ऐसा पाठ मालूम पडता है।