________________
१३६
जैन-शिलालेख संग्रह लामुत्पादयता प्रहतपटहढकागम्भीरवानेन घनाघनगर्जनानुकारिणा अस्याचितो बिनोदनिर्गम, (१) स्वकीया साञ्चलता (१) परनृपचेतोवृत्तिषु दातुमिवोचैराविलोलप्रकटितराज्यचिह्न (?) तुरङ्गमखरखुरोत्थितपाशुपटलमसृणितजलदसचयानेकमत्तद्विपकरटतटगलितदानधाराप्रतानप्रशमितमहीपराग.।
यस्य श्री चपलोदया खुरतरङ्गालीसमास्फालना
निर्भिन्नद्विपयानपात्रगतयो ये सचलचेतसः । (१) तस्मिन्नेव समेत्य सारविभव सत्यज्य राज्य रणे ___ भग्ना मोहवशात् खय खलु दिशामन्त भजन्तेऽरय ॥ इद कियद्भूतलमत्र सम्यक् स्थातु महत्सकटमित्युदग्रम् ।
खस्यावकाशं न करोति यस्य यगो दिशा भित्तिविमेदनानि ।। अनवरतदानधारावर्षागमेन तृप्तजनतायाः धारावर्ष इति जगति विख्यातः सर्वलोकवल्लभतया वल्लभ इति । तस्यात्मजो निजभुजबलसमानीतपरनृपलक्ष्मीकरधृतधवलातपत्रनालप्रतिकूलरिपुकुलचरणनिबद्धखलखलायमानधवलशृङ्खलारवबधिरीकृतपर्यन्तजनो निरुपमगुणगणाकर्णनसमाह्लादितमनसा साधुजनेन सदा संगीयमानशशिविशदयशोराशिराशावष्टब्धजनमन परिकल्पनत्रिगुणीकृतस्त्रकीयानुष्ठानो निष्ठितकर्तव्य प्रभूतवर्षश्रीपृथ्वीवल्लभराजाधिराजपरमेश्वरस्य प्रवर्धमानश्रीराज्यविजयसवत्सरेषु वदत्तुं । चारुचालुक्यान्वयगगनतलहरिणलाञ्छनायमानश्रीवलवर्मनरेन्द्रस्य सूनु खविक्रमावजितसकलरिपुनृपशिर शेखरार्चितचरणयुगलो यशोवर्मनामधेयो राजा व्यराजत । तस्य पुत्रः 'सुपुत्रः कुलदीपक' इति पुराणवचनमवितथमिह कुर्वन्नतितरा धीराजमानो
१ 'वहत्सु' पाठ मालूम पडता है।