________________
देवरहल्लिका लेख रणनखमण्डलो नारायणचिरणनिहितभक्तिः शूरपुरुपतुरगनरवारणघटासंघट्टदारुणसमरगिरसि निहितात्मकोपो भीमकोपः प्रकटरतिसमयसमनुवर्तनचतुर्युवतिजनलोकधूत्तॊऽलोकधूतः सुदुर्द्धरानेकयुद्धमूर्धलब्यविजयसम्पद हितगजब (IIIb) टाकेसरी राजकेसरी । अपि च ।
यो गङ्गान्वयनिर्मलाम्बरतलब्याभासनग्रोल्लसनमार्तण्डोऽरिभयङ्करः शुभकरसन्मार्गरक्षाकरः । सौराज्य समुपेत्य राज्यसमिती राजन् गुणैरुत्तमैराज-श्रीपुरुपश्चिरं विजयते राजन्य-चूडामणिः ॥ कामो रामासु चापे दशरथतनयो विक्रमे जामदग्न्यः प्राज्यैश्वर्ये बलारिवहुमहसि रविस्ख-प्रभुत्वे धनेश । भूयो विख्यातशक्तित्स्फुटनरमखिल प्राणभाज विधाता
धात्रा सृष्टः प्रजाना पित(पति)रिति कवयो य प्रशसन्ति नित्य ।। तेन प्रतिदिनप्रवृत्तमहादानजनितपुण्याहधोपमुखरितमन्दिरोटरेण श्रीपुरुषप्रथमनामवेयेन पृथुवीकोङ्गणिमहाराजेन अष्टानवत्युत्तरे[] पट्च्छतेषु शकवर्षेष्वतीतेष्वात्मनः प्रवर्द्धमानविजयैश्वर्ये संवत्सरे पञ्चाशत्तमे प्रवर्त्तमाने मान्यपुरमधिव-(IVa)सति विजयस्कन्धावारे श्रीमूल-मूलगणाभिनन्दितनन्दिसद्धान्वये एरेगित्तनाम्नि गणे पुलिकलगच्छे स्वच्छतरगुणकिरण]प्रततिप्रहळादितसकललोकः चन्द्र इवापरः चन्द्रनन्दीनाम गुरुरासीत् तस्य शिप्यस्समस्तविबुधलोकपरिरक्षणक्षमात्मशक्ति. परमेश्वरलालनीयमहिमा कुमारवद्वितीय. कुमारण(न)न्दी नाम मुनिपतिरभवत् तस्यान्तेवासी समधिगतसकलतत्त्वार्थसमयितबुधसार्थसम्पत्सम्पादितकीर्तिः कीर्त(ति)नन्द्याचार्यों नाम महामुनिस्समजनि तस्य प्रियशिष्यः शिष्यजनकमलाकरप्रबोधनकः