________________
जैन- शिलालेख संग्रह
कोणिमहाधिराजः अविनीतनामा तत्पुत्रो विजृम्भमाणशक्तित्रयः अन्दरि-आलत्तूर्-प्पोरुळर्रे-पेल्लनगराद्यनेक समरमुख मखहुतप्रहतशूर्पुरुषपशूपहारविधसविहस्तीकृतकृतान्ताग्निमुखः किरातार्जुनीयपञ्चदशसर्ग- ( IIb) टीकाकारो दुब्बिनीतनामधेयः तस्य पुत्रो दुन्तचिमर्द्दविमृदितविश्वम्भराधिप मौलिमालामकरन्दपुञ्ज पिञ्जरीक्रियमाणचरणयुगलनलिनो मुष्करनामधेयः तस्य पुत्रश्चतुर्दगविद्यास्थानाधिगतविमलमतिः विशेषतोऽनवशेपस्य नीतिशास्त्रस्य वक्तप्रयोक्तकुशलो रिपुति - मिरनिकरनिराकरणोदय भास्करः श्रीविक्रमप्रथितनामधेयः तस्य पुत्रः अनेकसमरसम्पादितविजृम्भितद्विरद रढनकुलिशाघात - व्रणसरूढ़ भास्वद्विजयलक्षणलक्षीकृतविशालवक्षस्थल समधिगतसकलशास्त्रार्थतत्त्वत्समाराधितत्रिवर्गो निरवद्यचरितर् प्रतिदिनमभिवर्द्धमानप्रभावो भूविक्रमनामधेयः
अपि च
११०
नानाहेतिप्रहारप्रविघटितभटोरष्कबाटोत्थितास्रग्
धाराखाद - (IIIa) मत्तद्विपशतचरणक्षोटसम्मर्द्दभीमे । सग्रामे पल्लवेन्द्रं नरपतिमजयद्यो विळन्दा-भिधाने राज - श्रीवल्लभाख्यस्समरशतजयावाप्तलक्ष्मीविलासः ॥ तस्यानुजो नतनरेन्द्रकिरीटकोटिरत्नार्कदीधितिविराजितपादपद्मः । लक्ष्म्या स्वयम्वृतपतिर्न्नचकामनामा शिष्टप्रियोऽरिगणदारणगीतकीर्त्तिः ॥
तस्य कोङ्गणिमहाराजस्य शिवमारापरनामधेयस्य पौत्रः समवनतसमस्तसामन्तमुकुटतट घटितवहलरत्नविलसदमरधनुष्खण्डमण्डितच