________________
॥ ॐ अहम् ॥ ॥ नमोऽस्तु श्रमणाय भगवते श्रीमहावीराय ।
॥ उपकेशगच्छीया पट्टावलिः॥
॥ श्रीमत्पार्धजिनेंद्राय नमः ॥ श्रीमत्केशीकुमारगणधरेभ्यो नमः ॥ श्रीमद्रत्नप्रभसूरिसद्गुरुभ्यो नमः ॥ ओकेशशद्वन्यार्थाः लिख्यंत ॥ इशिक ऐश्वर्ये, ओकेषु गृहेषु इष्टे पूज्यमाना सती या सा ओकेशा सत्यिका नाम्नी गोत्रदेवता । अल ओक शहो अकारांतः तस्यां भवस्तस्या अयमिति वा ओकेशः। भवे इत्यग् प्रत्ययः, तस्येदमित्यनेन वा अणप्रत्ययः । सत्यिका देवी हि नवरातादिषु पर्वसु अस्मिन् गणे पूज्यते सा चास्य गणम्य अधिष्टानी अतएवाम्य गच्छम्य ओकेश इति यथार्थ नाम प्रोद्यते सद्भिरिति प्रथमोऽर्थः ॥ १ ॥
ईशनमीशः ऐश्वर्य ओकर्महर्द्धिकश्राद्धप्रमुखलोकानां गृहरीशो यस्यां मा ओकेशा ओसिका नयरी । तत भव ओकेशः । ओसिकानगर्या हि अन्य गणम्य ओकेश इति नाम श्रीरत्नप्रभसूरीश्वरतो विख्यातं जातमिति द्वितीयोऽर्थः ॥ २ ॥
अः कृष्णः उः शंकरः को ब्रह्मा । एपां द्वंद्वसमासे ओकास्ते ईशते पूज्यमानाः संतो देवत्वेन मन्यमानाः संतश्च येभ्यस्ते ओकेशाः। ओके कृष्णशंभुब्रमभिदेवेरीशते येते वा ओकेशाः । परशासनजनाः क्षत्रियराज्यपुनादयः प्रतिबोधविधानात्तेपामयं ओकेशः । तस्येदमित्यणप्रत्ययः । श्रीरत्नप्रभसूरिभिस्तेषां पारार्थिकधर्मनिष्ठातः सिद्धान्तोक्तविशुद्धजैनधर्मनिष्ठायां प्रतिबोधदानेन प्रवर्तना कृता । तथा च श्रूयते पूर्व हि श्रीरत्नप्रभसूरीणां गुरवः श्रीपापित्यीयकेशीकुमारानगारसंतानयित्वेन विख्यातिमतो जगति जज्ञिरे । नतः प्राप्तमूरिमंताः समत्तंत्रा रमणीयाऽतिशयनिचयाः स्वकीयनिस्तुपशमुखीप्रागभारसंभारात् ज्ञातहिदशसूरयः श्रीमच्छ्रीरत्नप्रभसूरयः कियति गते काले विहरंतः संतः श्रीओसिका नगयीं समवसृताः । तप्त्यां च सर्व लोकाः पारतीथिकधर्मधारिणो संति । न कोपि जैनधम्मर्धारी । ततः साध्वाचारं प्रतिपालयाद्भिः सिद्धान्तोक्ततीर्थंकरधर्मशुभकर्मप्ररूपणां कुर्वद्भिः सद्भिः श्रीरत्नप्रभसूरिभिः पारतीर्थकानेकच्छेकविवकिलाकाः प्रतिबोधितास्ततः एते ओकेशा इति विरूदो विख्यातो जातः । इति तृतीयो अर्थः ॥ ३ ॥
अः कृष्णः, आः ब्रह्मा. उः शंकरः, एपां द्वंद्वे आवम्ततः ओभिः कृष्णब्रह्मशंकरदेवेः कायते स्तूयते देवाधिदेवत्वादिति ओकः प्रस्तावात् श्रीवर्धमानस्वामी कचिदिति ड प्रत्ययः, ओकश्चासा ईशश्च ओकेशस्नम्याय ओकेशः वर्तमानतीर्थाधिपतिश्रीवर्षमानजिनपतितीर्थाश्रयणादिति चतुर्थोऽर्थः ॥ ४ ॥