________________
जैनमेघदूतनी श्रीमान्नेमिर्विषयविमुखो मोक्षकामश्चकार
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥ सा तत्रोच्चैः शिखरिणि समासीनमेनं मुनीशं
नासान्यस्तानिमिषनयनं ध्याननिर्धूतदोषम् । योगासक्तं सजलजलदश्यामलं राजपुत्री
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ ५ ॥
तुङ्गं शृङ्गं परिहर गिरेरेहि यावः पुरी खां
रत्नश्रेणीरचितभवनद्योतिताशान्तरालाम् । शोभासाम्यं कलयति मनाङ् नालका नाथ यस्या
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहा ॥ ७ ॥
रम्या हम्युः क तव नगरी दुर्गशृङ्गः क चाद्रिः
कैतत्काम्यं तव मृदु वपुः क व्रतं दुःखचर्यम् । चित्तग्राह्य हितमिति वचो मन्यसे चेन्ममालं
किश्चित्पश्चाद्रज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥
प्रावृट्प्रान्तं प्रियतमगता दुर्दशा दुःखदेव
प्रायोऽन्योन्य रतिकरमितः सांप्रतं सङ्गमाय । भोगानेकोत्सवसुखसुखानिच्छया मन्दिरे स्त्रे
निर्वेक्ष्यावः परिणतशरचन्द्रिकासु क्षपासु ॥ ११८ ॥ गत्वा शीघ्र स्वपुरमनुजं प्राप्य राज्यं त्रिलोक्याः
कीर्तिं शुद्धां वितनु मुहृदां पूरयाशां च पित्रोः । राजीमत्या सह नवधनस्येव वासु भूयो ___मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२३ ।।
तदुःखार्थ प्रवर कवितुः कालिदासस्य काव्या· दन्त्य पादं सुपदरचितान्मेघदूतागृहीत्वा ।