________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं नियोनिद्रं पुरुपरिमलं राजतेजोविराजि
स्पष्टश्रीकं वदनकमलं देव! ते सेवतेऽदः। स्थानभ्रष्टं जितमिति वदन्त्येव कर्णावतंसी
चक्रे काचिद्दशशतदलं लीलयोलूय तस्य ॥ ४६॥ काचित् 'दशशतदलं' सहस्रदलं लीलया 'उल्लूय' उञ्चित्य तस्य 'कर्णावतंसीचक्रे' कर्णाभरणं विदधे । किं कुर्वती ? इति वदन्येव, इतीति किम् ? हे देव! 'अदः' कमलं 'ते' तव वदनकमलं सेवते। कुतः सेवते ? विशेषणद्वारेण हेतुमाह-जितम् । तजये हेतूनाह-किंरूपं वदनकमलम् ? 'नित्योन्निद्र' नित्यविकस्वरं, कमलं तु दिवा विकस्वरं रात्रौ संकुचति, पुनः किंरूपम् ? पुरुः प्रभूतः परिमलो यस्य तत्, कमलस्य तु परिमलः परिमित एव, पुनः किंरूपम् ? 'राजतेजोविराजि' राज्ञस्तेजो राजतेजस्तेन विराजते इत्येवंशीलम् , कमलं तु राजतेजोविराजि न स्यात् , राजा चन्द्रस्तस्य तेजसा न विराजते, पुनः किंरूपम् ? स्पष्टा प्रकटा श्रीर्यस्य तत्, कमले हि श्री रूढ्यैव, किंविशिष्टं कमलम् ? स्थानाद्दष्टम् , यतः स्थानभ्रष्टं येन जितं स्यात्तत्तस्य सेवां कुरुते, स्वामिनो वदनशोभाधिक्यं प्रतिपादितम् । अत्र परिकरहेतुव्यतिरेकाः ॥ ४६ ॥ स्पर्धध्वे रे ! नयननलिने निर्मले देवरस्य
सित्वेत्येवं शिततरतिरस्काक्षकाण्डान् किरन्ती । कन्दोत्खातान् धवलकमलान् कामपाशप्रकाशान्
नाशाशास्यानुरसि सरसाऽहारयत् स्वामिनोऽन्या॥४७॥ अन्या सरसा धवलकमलान् स्वामिनः 'उरसि' हृदये 'अहारयत्' हारमकरोत् । किं कृत्वा ? इत्येवं स्मित्वा । एवमिति किम् ? रे कमलाः ! यूयं देवरस्य निर्मले 'नयननलिने स्पर्धध्वे' नयनकमलाभ्यां सह स्पर्धा कुरुथ । किं कुर्वती ? 'शिततरतिरःकाक्षकाण्डान् किरन्ती' तीक्ष्णतरतिर्यकटाक्षबाणान् विक्षिपन्ती । किंरूपान् धवलकमलान् ? कन्दात् उत्खातान् उत्पाटितान् कन्दोत्खा.