________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं पुनः किंरूपान् ? 'कलरुतान्' मधुरशब्दान् । पाणिपमैरिति तुल्यार्थवाचकधर्मलोपे लुप्तोपमा मृगलोचनावत् । अम्भसोऽपत्यानि आम्भयः "भूयःसंभूयोऽम्भोऽमितौजसः स्लुक् च” (सि० ६-१३६) इप्रत्ययः सलोपः, "वृद्धिः स्वरेष्वादेणिति तद्धिते" (सि० ७-४-१) वृद्धिः, "अवर्णेवर्णस्य” (सि०७-४-६८) अलोपः, आम्भिरिति निष्पन्नं, ततः पुंलिङ्गे शसि आम्भीनिति । अत्रोपमाजात्युत्प्रेक्षारूपकानुप्रासाः ॥ ३९ ॥ तत्रान्यत्रोत्तरसरिसरिद्वापितोयेषु चैष
क्रीडां कर्तु रतिवशवशावृन्दवर्ती सुगात्रः । मृगन् पद्भ्यां नलिननिकरं नीरपूरं करेणो
दसन् पश्यन्नधिमदमुपाक्रस्त हस्तीव शस्तः॥४०॥ 'एषः कृष्णः 'तत्र' तासु सरसीषु 'चं अन्यत् अन्यत्र, उत्तरसरिसरिद्वापितोयेषु क्रीडां कर्तुमुपाक्रस्त, उत्तराणि प्रधानानि सरिः निर्झरः सरित् नदी वापी (च) तेषां तोयेषु । क इव ? हस्तीव यथा हस्ती सरोनिर्झरादिजलेषु क्रीडां कर्तुमुपक्रमते । किंरूप एषः ? 'रतिवशवशावृन्दवर्ती रतिवशा रागवशा या वशाः स्त्रियः तासां वृन्दे वर्तत इत्येवंशीलः, पक्षे रतिवशा वशा हस्तिन्यः तासाम् । पुनः किंविशिष्टः ? 'सुगात्रः' सुन्दरशरीरः, हस्तिपक्षे गात्रं पश्चिमभागः । पुनः कथंभूतः ? 'पन्यां' पादाभ्यां नलिननिकरं मृद्गन् , समम् । नीरपूरं 'करण' ( हस्तेन पक्षे) शुण्डया 'उदस्यन्' उल्लालयन् । अधिमदं यथाभवति पश्यन् , समानम् । ( पुनः कथम्भूतः ? शस्तः, समम् । ) वापितोयेष्विति "वेदूतोऽनव्यययवृदीच्डीयुवः पदे" (सि० २-४-९८) हवः, उपास्तेति "प्रोपादारम्भे" ( सि० ३-३-५१) आत्मनेपदम् । अत्र परिकरोपमाश्लेषाः ॥ ४०॥