________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदानीं तं नृपोऽपृच्छ-दरे ! किमिदमद्भुतम् । सोऽपि वृत्तान्तमाचख्यौ, दुःसुतप्रेरणादिकम् ॥ २८ ॥ तं तत्सुतं च ते लोकाः, धिक्कुर्वन्तीति रे ! युवाम् । अकृशाथामिदं किं य--मित्रेऽपि द्रोहकारिता ॥ २९ ॥ पापबुद्धिस्ततो राज्ञा, मार्यमाणोऽपि वारितः । लगित्वा पादयोधर्म-बुद्धिना शुद्धबुद्धिना ॥३०॥ धर्मबुद्धस्तदा श्लाघां, निन्दां पापमतेस्तथा । भूषाद्याश्चक्रिरे माया, कटरेऽत्रैव दुःखदा ॥ ३१॥ एवं बभूवाऽशठवक्रभावयुग, तन्मित्रयुग्मं सुखदुःखभाजनम्। मायां भुजङ्गीमिव दूरतस्ततो--ऽवदातचित्तास्त्यजत द्रुत जनाः
इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धता
___ श्रीपापबुद्धिकथा संपूर्णा
२० लोभोपरि श्री सागर-श्रेष्ठि-कथा यो द्वादशं यावदुपागतो गुण-स्थानं निषेधं स्थिरसंविदः सृजेत् ।
इहाप्यमुत्रापि विडम्बयेनक, स लोभवैरी किल सागरं यथा ॥ १ ॥ सागरः सादरो द्रव्यो-पार्जने धर्मवर्जितः । अभूच्छीमन्दिरे श्रेष्ठो, द्रव्यकोटघष्टकप्रभुः॥१॥ परं कदर्यमूर्द्धन्यो, न भुंक्ते न ददाति च । कपाटपिहितं प्रायो, द्वारं तस्य सदा भवेत् ॥ २॥ गृह एव स्थितस्यास्य, दृष्टौ कोऽपि करोति न । भोजनस्नानदानादि, याचकः कोऽपि नैति च ॥३॥
For Private and Personal Use Only