________________
Shri Mahavir Jain Aradhana Kendra
*******
www.kobatirth.org
१९ मायोपरि पापबुद्धि-कथा
मायापिशाचविवशा नरा ये, स्वार्थेकनिष्ठाः परवञ्चनानि । सृजन्ति तेऽधोगतयो भवन्ति, निदर्शनं त्वत्र स पापबुद्धिः ॥ १ ॥ पुरे श्रीतिलके द्रव्यो- पाज्र्ज्जनैकपरायणौ । धर्म्मबुद्धिः पापबुद्धि-रभूतां वणिजावुभौ ॥ १ ॥ ऋजुस्वभावस्तत्राद्यः सर्वेषां हितचिन्तकः । द्वितीयः कपटी मायी, विश्वस्तस्याऽपि वञ्चकः ॥ २ ॥ तयोरप्यभवन्मैत्री, वाणिज्यं तन्वतोर्मिथः । लोको वदत्ययं योगः, काष्टक्रकचसन्निभः ॥ ३ ॥ तथापि धर्म्मबुद्धिस्तं, न त्यजत्युत्तमत्वतः । अशोभाकृदपि त्याज्यः, कलङ्कः शशिना किमु ॥ ४ ॥ अन्यदा व्यवसायार्थ, तौ गतौ क्वापि पत्तने । वणिजां क्षीणवित्तानां, व्यवसायो हि कामधुक् ॥ ५ ॥ पृथग्पृथगुपायैतौ, दीनाराणां सहस्रकम् । प्राग्वद्वक्रेतरस्वान्तौ वलितौ स्वपुरं प्रति ॥ ६ ॥ आसन्ने स्त्रपुरे प्राप्ते, शठोऽशठमभाषत । एतावदखिलं वित्तं, पुरान्तर्गृह्यते कुतः ॥ ७ ॥ कियन्निधीयतेऽत्रैवा--ऽवसरे लास्यते पुनः । राजदायाददस्युभ्यो भयं वित्तस्य नैकधा ॥ ८ ॥ श्रुत्वेति सरलस्वान्तो, वित्तं पञ्चशतीमितम् । न्यास्थत्तत्रैव तच्चेतः प्रत्ययाय परोऽपि च ॥ ९ ॥ आगतौ स्वगृहे वर्द्धा-पनकं च तयोरभूत् । कियद्दिनान्तरे वित्तं, तद्भ्रस्थं पापधीरलात् ॥ १० ॥ अथावसरमासाद्य, पापबुद्धिस्तमब्रवीत् । आगच्छ मित्र ! तद्वित्तं यथा सम्प्रति गृह्यते ॥ ११ ॥ स्थानद्वयं तदालोक्य, रिक्तं प्राह स पापधीः । आः केनापि हृतं वित्त- मावयोर्जीवितोपमम् ॥ १२ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir