________________
Shri Mahavir Jain Aradhana Kendra
जैन कथार्णवः
॥ ३३॥
www.kobatirth.org
१८ मानोपरि उज्झितकुमार - कथा
मानोsपि मान्योऽस्तु मनस्विनां कथं, विडम्बयन्नष्टविधाभिरङ्गिनः । यं प्राप्य स क्ष्मापतिपुत्र उज्झिता - भिधोऽपि जज्ञे निजजीवितोज्झितः ॥ १ ॥
अष्टविधमदफलं चेदम् - रज्जाभोगे तिसिआ, अट्टवसट्टा पडंति तिरिएसु । जाईमएण मत्ता, किमिजाई चैव पार्वति ॥ १ ॥ कुलमत्त सीआलत्ते, उट्टाइजोणि जंति रूवमए । बलमत्तावि पयंगा, बुद्धिमए बुकडा हुंति ॥ २ ॥ रिद्धिमए साणाई, सोहग्गमएण सप्पकागाई । लाभमएण बहल्ला, हवंति इअ अट्ठमयदुट्ठा || ३ || इति श्रीमहापुरुषचरित्रे |
राजा नन्दिपुरे रत्न-सारो नीतिलतावनम् । सिञ्चन्नम्बुदवत्सर्व - तापनिर्वापकोऽभवत् ॥ १ ॥ तस्य प्रेमलता राज्ञी, साक्षात्प्रेमलतेव या । कोऽपि जीवोऽन्यदा तस्याः, गर्भे समुदपद्यत ॥ २ ॥ अशुभा दोहदास्तस्याः, जातस्तदनुभावतः । नृपव्यापादनस्तेन्य- वञ्चनोल्लम्बनादयः ॥ ३ ॥ जातमात्रोऽपि बालोऽसौ, प्रच्छन्नं त्याजितस्तया । बहिर्बलिष्ठायुष्कत्वा-द्वराको न मृतः परम् ॥ ४ ॥ एकेन वणिजा दृष्टो, गृहीतश्च दयालुना । अर्पितो निजभार्यायै, पालयामास सापि तम् ॥ ५ ॥ कृतोज्झिताभिधः पित्रा, लब्ध उज्झित इत्ययम् । मनोरथेन महता, जातः पञ्चपवार्षिकः ॥ ६ ॥ अहमेव पटुः प्राज्ञो, धनवान् बलवानपि । केऽमी वराका मनुजाः, मत्पुरः किङ्करा इव ॥ ७ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
* मानोपरि उज्झितकुमारकथा
॥३३॥