________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
最费帶柴柴聯號端端樂聯涨聯端端端端帶殘端端端端帶離器帶
स्त्रीरूपाऽपि क्षमैवैका, क्रोधयोधं जयत्यमुम् । गुणाः परे तु तं जेतुं, पुरूपा अपि न क्षमाः ॥ २४ ॥ आक्रुष्टोऽपि हतो वापि, न बालैः कलहायते । मुनिः संसारभीरुत्वा-दन्यथा तत्समो भवेत् ॥२५॥ श्रूयते हि पुरा साधु-मेकमुग्रतपःपरम् । देवता काचिदभ्येत्यो-पास्ते तद्गुणरञ्जितः ।। २६ ॥ साधो ! सुखेन चारित्रं, तव निर्वहते सदा । वपुरस्ति निराबाधं, नाप्यन्यः कोऽप्युपद्रवः ॥२७॥ देवो नरो वा यः कश्चि-द्विरूपं कुरुते तव । तदा वाच्यं ममेत्यादि-वार्ता नित्यं चकार सा ॥२८॥ निःस्पृहो मुनिरप्याह, न मे किश्चन दुष्करम् । यतः सन्तोषिणः सौख्य, यत्तच्चक्रभृतोऽपि नो ॥ २९ ॥ पारणाहेऽऽन्यदा गच्छ-नगरान्तः सःसंयतः । अमङ्गलधियाभ्याप्तद्विजेनकेन कुट्टितः ॥३०॥ मुनिरप्युच्छलन्मन्यु-मुष्टिभिस्तमताडयत् । मुष्टामुष्टि तयोरेवं, चिरं युद्धमजायत ॥३१॥ भोजनानन्तरे देवी, पप्रच्छ कुशलादिकम् । रुष्टः सोऽप्याह तत्र त्वं, नागता किं त्वयाऽधुना ? ॥३२॥ मुने ! तत्राहमायाता, परं त्वं नोपलक्षितः । उभयोयुद्धथमानत्वात्त-दानी समता ह्यभूत् ॥ ३३ ॥ क्षमातपोभ्यां युक्तत्वात् , क्षमाश्रमण उच्यते । तयोरेकतरस्यापि, नाशे नाम्नो निरर्थता ॥ ३४ ॥ इत्थं तया साधुरयं प्रबोधितो, बभूव चारित्रिजनावतंसकः । तत्क्रोधयोधो विजिगीषुभिर्भवं, जेतव्य एवोच्चपदस्पृहायदि॥३५॥
इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धृता
श्री सुरविप्रकथा संपूर्णा
张崇樂樂器樂雅樂樂樂器张张张黎黎黎然黎器张黎张密
For Private and Personal Use Only