________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
器端张器器蒸蒸蒸端聯盛號樂器蒸器端端整张端號幾號號密”
घनघातिक्षयं कृत्वा भावचारित्रमाश्रितः । अज्ञानतिमिरादित्यं, केवलज्ञानमाप सः॥२१॥ (युग्मम् ) कृत्वालोचं शक्रदत्तं, मुनिवेशं दधत्ततः । निर्जगाम गृहाच्चक्रि-साधु नुरिखाम्बुदात् ॥ २२ ॥ तमुपात्तव्रतं वीक्ष्य, क्षामसंसारवासनाः ॥ भूपा दश सहस्राणि, दीक्षामाददिरे मुदा ! ॥ २३ ॥ ततः शक्रादयो देवा-स्तं नत्वा स्वाश्रयं ययुः॥ भुवि व्यहार्षीभगवा-नपि भव्यान् प्रबोधयन् ॥ २४ ॥ सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रभोः । कौमारे मण्डलित्वे तु, सहस्रं शरदामभूत् ॥ २५॥ चक्रित्वेऽष्टसहस्रोनाः, पूर्वलक्षा रसोन्मिताः । पूर्वाणां लक्षमेकं तु, केवलीत्वे व्रतेऽपि च ॥ २६ ॥ सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः॥ कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ॥ २७ ।।
इति श्री मुद्रित-उत्तराध्ययनाष्टादशमध्ययनवृत्तितः उद्धृतम् इति श्रीभरतचक्रिचरित्रम् संपूर्णम्
८ श्रीमघवचकिचरित्रम् अभूदिहैव भरते, महीमण्डलसत्पुरे । वासुपूज्यप्रभोस्तीर्थे, नाम्ना नरपतिर्नृपः ॥१॥ स्वप्रजावत् प्रजाः सम्यक, पालयित्वा चिरं स राट् । संत्यज्य राज्यमन्येधु-विरक्तो व्रतमाददे ॥ २॥
于晓晚佛聯聯蒂端端端端樂器整器器鉴器端繼器梁端端雖然继晓
For Private and Personal Use Only