________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः ॥२२॥
जयचक्रि कथा
蒂蒂蒂举亲亲亲亲亲亲亲深深深深亲亲亲亲亲亲亲亲議案
अप्रमत्तश्चिरं दीक्षा, पालयित्वा विपद्य च । अहमिन्द्रः स गिर्वाणो, मध्यप्रैवेयकेऽभवत् ॥ ३॥ इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः । श्रिया समुद्रविजयी, समुद्रविजयोऽभवत् ॥ ४॥ तस्या भार्याऽभवद्भद्रा, भद्राकारजितामरी । सोऽथ देवोऽन्यदा च्युत्वा, तस्याः कुक्षाववातरत् ॥५॥ चतुर्दशमहास्वमां-स्तदा च प्रेक्ष्य सा मुदा । राज्ञे जगाद चक्री ते, सुतो भाविति सोऽप्यवक् ॥ ६॥ क्रमाच्च सुषुवे पुत्रं, राज्ञी पूर्वेव भास्करम् । महोत्सवैर्नृपस्तस्य, मघवेत्यभिधां व्यधात् ॥७॥ संप्राप्तः सोऽथ तारुण्य, दत्तराज्यो महीभुजा । उत्पन्नचक्रः षट्रखण्डं, साधयामास भारतम् ॥ ८ ॥ भुक्त्वा चिरं चक्रिरमां विरक्तः,प्रान्ते परिव्रज्य स चक्रवर्ती। पंचाब्दलक्षीमतिवाह्य सर्वा-युषो सुरोऽभूत्रिदिवे तृतीये॥९॥
इति श्रीमुद्रितउत्तराध्ययनाष्टादशमध्ययनवृत्तितः उद्धृतं इति श्रीमधवचक्रिचरित्रकथा संपूर्णा
९ श्री जयचक्रि चरित्रम् अत्रैव भरते सम्पद्-गृहे राजगृहे पुरे । यशः सुधासमुद्रोऽभू-समुद्रविजयो नृपः॥१॥ पुण्यलावण्यतारुण्या, -शीलालङ्कारशालिनी । वप्रः शालिगुणालीना, वप्रा तस्य प्रियाऽभवत् ॥ २॥ द्विः सप्ततिर्महास्वमैः, सूचितोऽभूत्सुतस्तयोः । जयाह्वयो जयन्तस्य, जयन् रूपं वपुःश्रिया ॥३॥
॥२२॥
For Private and Personal Use Only