________________
Shri Mahavir Jain Aradhana Kendra
जैन कथा - णवः ॥ १३ ॥
www.kobatirth.org
प्रभुं नत्वा स्तवैः स्तुत्वा गृहीत्वा करसंपुटे । चतुःषष्टिः सुराधीशा, आजग्मुर्मेरुपर्वते ॥ ३३ ॥ मेरुपर्वतचूलायामुपाविश्य जिनेश्वरम् । सौधर्मेन्द्रादयश्चक्रुः स्वामिनो जननोत्सवम् ॥ ३४ ॥ प्रत्यागताः सुराधीशाः. कृत्वा पार्श्वजिनोत्सवम् । आत्मानं कृतकृत्यार्थं मन्यमाना मुहुर्मुहुः ॥ ३५ ॥ रूप्यहाटकरत्नानां द्वात्रिंशत्कोटिवृष्टयः । ततो भृपगृहे देवाः पातयामासुराशु ते ॥ ३६ ॥ अथ द्वितीयबालेन्दुखि बालः प्रभुः स्वयम् । वर्द्धते लालितः शश्वत् पञ्चाभिर्धातृमातृभिः ॥ ३७ ॥ क्रमेण यौवनं प्राप्तः, श्रीपार्श्वपरमेश्वरः । पित्रा प्रभावतीराज्ञ्या विवाहो विहितः प्रभोः ॥ ३८ ॥ अन्येद्युस्तत्पुरीबाह्ये, तापसः कमठः शठः । पञ्चाग्निसाधकः कुण्ठ, आगतोऽज्ञानकष्टकृत् ॥ ३९ ॥ गवाक्षथेन पार्श्वन, सेवकानां तदा मुदा । पृष्टं भोः सेवकाचाद्य, कुत्र गच्छन्ति नागराः ॥४०॥ तैः प्रोक्तं युवराजेन्द्र ! तापसः कमठाभिधः । समागतोऽस्ति तं नन्तुं तत्र लोका ब्रजन्त्यमी ॥ ४१ ॥ ऐरावतगजस्पर्द्धिगजमारुह्य सत्वरम् । क्रीडामीषेण पार्थोऽपि तत्पार्श्वे समुपागमत् ॥ ४२ ॥ कुर्वन्नज्ञानकष्टानि प्रभुः प्रोवाच तापसम् । करोषि त्वं मुधाऽज्ञानतपः किल दयांविना ॥ ४३ ॥ प्रत्युवाच प्रभुं सोऽथ, यूयं राजेन्द्रसूनवः । वाजिक्रीडाविधौ दक्षा, नास्मत्तापसवृत्तिषु ॥ ४४ ॥ तदा पार्श्वाज्ञया काष्ठमध्यात् भृत्येन सत्वरम् । कुटाराभ्यां द्विधा कृत्वा, न्यकास्यदग्धपन्नगः ॥ ४५ ॥ far fart कृतो लोकैस्तापसः कमठः शठः । प्रसंसां पार्श्वनाथस्य लोका विदधिरे मुहुः ॥ ४६ ॥ द्विर्षे गतेऽन्येद्युर्विज्ञाय समयं प्रभुः । दत्त्वा संवत्सरीदानं ललौ दीक्षां जिनाधिपः ॥ ४७ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री पार्श्वना थ चरित्रम्
॥ १३॥