SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेनकथा पाश्वनाथचरित्रम् ॥१२॥ क्रमेण दशमः स्वर्ग:प्राणताख्यः प्रसिद्धिभाक् । आयुषः संस्थितिस्तत्र सागराणां तु विंशतिः॥३॥ तदायुषः स्थिति भुक्त्वा कृत्वा देवभवक्षयम् । अच्युत् स्वर्गतस्तस्मात् पार्श्वजीवो महासुरः॥४॥ जम्बूद्वीपो महाद्वीपो, लक्षयोजनविस्तृतः । परिधिस्तस्य विख्याता, सिद्धान्ते तां भणाम्यथ ॥ ५॥ परिहो तिलक्खसोलससहस्सदोयसयसत्तवीसहिया । कोसतिगठ्ठावीसं धणुसयतेरंगुलद्धहियं ॥६॥ तत्र श्रीभरतक्षेत्रे भरिते भूरिभूतिभिः । पुरं वाराणसीसंज्ञं पुरन्दरपुरोपमम् ॥७॥ निशम्यते यत्र पुरे तु दण्डः, प्रासादशीर्षे न पुनः प्रजासु। विद्वज्जनानां मनसस्तु चौराः, श्रियाश्च चौरा नहि सन्ति केचित् ॥८॥ प्रासादमूर्भ कलशस्थले हि यत्रार्कबिम्बं प्रतिभाति नित्यम् । केतुस्थले स्वर्गनदी मनोज्ञा, किं वर्ण्यते वर्णनमेव तस्याः॥९॥ अन्याय इति शब्दस्तु शास्त्रेषु, जनतासु नो दातारः प्रचुरा यत्र । याचकाः स्तोकमात्रकाः ॥१०॥ तत्राश्वसेनभूपालो, भूपालालिपुरःसरः । प्रजापालनसंसक्तो, राजते सार्वभौमवत् ॥११॥ रतिवच्चारुरूपाढ्या, सुपौलोमीव सुन्दरा । स्फारलावण्यसंपूर्णा, तिरस्कृततिलोत्तमा ॥ १२ ॥ वामा वामध्रुवां मध्येऽभिरामा गुणराजिभिः । वामा राज्ञी बभौ तस्य, पट्टराज्ञी शुभाशया ॥ १३ ॥ [ युग्मम् ] तस्थाः कुक्षौ समुत्पेदे, श्रीपार्श्वपरमेश्वरः । राज्ञी ददर्श तद्रात्रौ स्वमानि च चतुर्दश ॥ १४ ॥ आद्यस्वमे गजो दृष्टो द्वितीये वृषभः शुभः । तृतीये केसरी सिंहो महालक्ष्मीश्चतुर्थके ॥ १५ ॥ पञ्चमे पुष्पमाला च, षष्ठे स्वमे हिमद्युतिः। सप्तमे सविता दृष्टो, ध्वजा दृष्टोऽष्टमे तया ॥ १६ ॥ नवमे कलशः पद्मसर-स्तु दशमे तथा । एकादशे पयःसिन्धुदिशे सुरमन्दिरम् ॥ १७ ॥ ॥१२॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy